अनुभूतसिद्धसारस्वतस्तवः
कलमरालविहङ्गमवाहना सितदुकूलविभूषणलेपना ।
प्रणतभूमिरुहामृतसारिणी प्रवरदेहविभाभरधारिणी ॥ १॥
अमृतपूर्णकमण्डलुधारिणी त्रिदशदानवमानवसेविता ।
भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजम् ॥ २॥
जिनपतिप्रथिताखिलवाङ्मयी गणधराननमण्डपनर्तकी ।
गुरुमुखाम्बुजखेलनहंसिका विजयते जगति श्रुतदेवता ॥ ३॥
अमृतदीधितिबिम्बसमाननां त्रिजगतीजननिर्मितमाननाम् ।
नवरसामृतवीचिसरस्वतीं प्रमुदितः प्रणमामि सरस्वतीम् ॥ ४॥
विततकेतकपत्रविलोचने विहितसंसृतिदुःकृतमोचने ।
धवलपक्षविहङ्गमलाञ्छिते जय सरस्वति पूरितवाञ्छिते ॥ ५॥
भवदनुग्रहलेशतरङ्गितास्तदुचितं प्रवदन्ति विपश्चितः ।
नृपसभासु यतः कमलाबलाकुचकलाललनानि वितन्वते ॥ ६॥
गतधना अपि हि त्वदनुग्रहात् कलितकोमलवाक्यसुधोर्मयः ।
चकितबालकुरङ्गविलोचना जनमनांसि हरन्तितरां नराः ॥ ७॥
करसरोरुहखेलनचञ्चला तव विभाति वरा जपमालिका ।
श्रुतिपयोनिधिमध्यविकस्वरोज्ज्वलतरङ्गकलाग्रहसाग्रहा ॥ ८॥
द्विरदकेसरिमारिभुजङ्गमासहनतस्करराजिरुजां भयम् ।
तव गुणावलिगानतरङ्गिणां न भविनां भवति श्रुतदेवते ॥ ९॥
ॐ ह्रीं क्लीं ब्लीं(१) ततः श्रीं तदनु हसकल ह्रीमथो ऐं नमोऽन्ते
लक्षं साक्षाज्जपन्(२) यः करसमविधिना सत्तपा ब्रह्मचारी ।
निर्यान्ती चन्द्रबिम्बात् कलयति मनसा त्वां जगच्चन्द्रिकाभां
सोऽत्यर्थं वह्निकुण्डे विहितघृतहुतिः स्याद् दशांशेन(३) विद्वान् ॥ १०॥
रे रे लक्षणकाव्यनाटककथा(४) चम्पूसमालोकने-
(५)क्वायासं वितनोषि(६) बालिश मुधा किं नम्रवक्त्राम्बुजः ।
भक्त्याराधय(७) मन्त्रराजसहसा येना(८)निशं भारतीं
तेन(९) त्वं कवितावितानसविताद्वैतप्रबुद्धायसे ॥ ११॥
चञ्चच्चन्द्रमुखी प्रसिद्धमहिमा स्वाच्छन्द्य(१०)राज्यप्रदा-
ऽनायासेन सुरासुरगणैरभ्यर्थिता(११) भक्तितः ।
देवी संस्तुतवैभवा मलयजालेपाङ्गरत्नद्युतिः
सा मां पातु सरस्वती भगवती त्रैलोक्यसञ्जीविनी ॥ १२॥
स्तवनमेतदनेकगुणान्वितं पठति यो भाविकः प्रमनाः प्रगे ।
स सहसा मधुरैर्वचनामृतैर्नृपगणानपि रञ्जयति स्फुटम् ॥ १३॥
॥ इत्यनुभूतसिद्धसारस्वतस्तवः परिपूर्णः ॥
Footnote १ ॐ ह्रीं श्रीं क्लीं ब्लूं इति पाठान्तरम् ।
२ ०जपेत् यः । ३ संसेवि विद्वान् । ४ तथा । ५ ०लोकनेष्वायासम् ।
६ वितनोति । ७ ०राधन । ८ तेना०। ९ येन । १० स्यात् सद्यराज्य० ।
११ ०रभ्यर्चिता ।
Proofread by Aruna Narayanan