अन्तर्विमर्शः
मूले दीपाङ्कुराकारामग्रे पद्मानुकारिणीम् ।
किरन्तीममृत-ज्योत्स्नां कलये बोध-सारिणीम् ॥ १॥
यातायात-पराक्रान्त-चक्रान्त-परिवर्तिनीम् ।
गाहे ज्ञप्ति-सुधा-सूतिं सिद्धि-साधन-वर्तिनीम् ॥ २॥
प्रत्यक्षी-क्रियते यान्तरसंप्रज्ञात-वर्त्मना ।
तां व्यामृशामि विश्वेशीं दहराकाश-रूपिणीम्म् ॥ ३॥
यदाज्ञया स्वस्व-कृत्ये पञ्च-भूतानि जाग्रति ।
तां सिद्धि-पाणि-ग्रहण-कल्याण-कलशीं स्तुवे ॥ ४॥
श्यामामपि परिस्फूर्जत्तडित्कान्त-कलेवराम् ।
वन्दे त्रिविग्रहां नाना-विग्रहामप्यविग्रहाम् ॥ ५॥
संसार-सर्प-सन्दष्ट-स्वास्थ्य-सम्पादनोद्यताम् ।
उद्यत्सान्द्र-दया-दृष्टि-दृष्ट-भक्त-कुलां श्रये ॥ ६॥
दुर्वासना-सरिन्मग्न-समुद्धरण-तत्पराम् ।
उपासे परमेशानीं स्थास्नु-सौहित्य-साधनीम् ॥ ७॥
अन्तरूर्ध्वमधो-विश्वग्विकसन्महिमाश्रयाम् ।
विद्यामविद्या-हतये प्रतिपद्ये महेश्वरीम् ॥ ८॥
ये चैकतान-मनसः समुदीरयन्ति दुर्गाप्रसाद-गदितं स्तव-रत्नमेतत् ।
तेऽन्तः-प्रमादमवहत्य समूल-घातं दुर्गा-प्रसादन-कृते प्रगुणीभवन्ति ॥ ९॥
इति श्रीदुर्गाप्रसादद्विवेदीविरचितः अन्तर्विमर्शः सम्पूर्णः ॥
Encoded and Proofread by Rajani Arjun Shankar