अन्नपूर्णास्तवः
विश्वेश्वरीं वरेण्यां विश्वाश्रयणीं विशिष्टफलदात्रीम् ।
स्तोष्यामि वाञ्छिताप्त्यै स्तोत्रैरन्नाधिनायिकामम्बाम् ॥ १॥
काञ्चनरत्नविचित्रां दवीं दधतीं तथान्नपात्रं च ।
कष्टदरिद्रार्तिहरामम्बां प्रणतोऽस्मि सम्पदां वृद्ध्यै ॥ २॥
सर्वाभिलाषपूरणकल्पकलतिकान्नपूर्णाख्या ।
दारिद्र्यदोषमुग्रं शमयतु सकलार्थवृद्धिदानेन ॥ ३॥
अन्नाधिनायिकायाः कृपाघना दुःखधर्मपरितप्ते ।
मयि दारिद्र्यऋणघ्न्या वर्षतु धनधान्यधारया सुचिरम् ॥ ४॥
वेदादिर्भुवनाहृद्भगवति माहेश्वरीति चान्नान्ते ।
पूर्णेऽग्निवल्लभा स्यादुक्तोऽयं मनुरशेषफलदायी ॥ ५॥
गुरुकारुण्याल्लब्धं मन्त्रमिदं दिनमुखेषु भक्तधिया ।
यो जपति तस्य सिद्धिर्न दुर्लभा जायते च तापघ्नी ॥ ६॥
तव पादकमलसेवाहृतचित्तः साधकः समाहितधीः ।
तरति महाभवदुर्गं विश्रुतकीर्तिप्रभावसौभाग्यः ॥ ७॥
त्वजपपूजाध्यानप्रभेदपरिनिष्ठितात्मधीर्मनुजः ।
निःस्खोऽप्यकिञ्चनोऽपि त्रिभुवनविख्यातकीर्तिराशिः स्यात् ॥ ८॥
निधिवृन्दमध्यगां त्वां ध्यात्वा मन्त्रं यदा नरो जपति ।
देवि तदास्य निवासं विशन्ति विविधार्थपूरिता निधयः ॥ ९॥
दिव्यान्नपूर्णपात्रं दवीं च करद्वयेन विभ्राणाम् ।
ध्यात्वा यदि जपति त्वां प्रपूर्यते तस्य वेश्म धान्यौघैः ॥ १०॥
यस्मिन् वसति मनुष्यस्तव मन्त्रविशेषजापको देशे ।
तत्र न दीना वाणी प्रवर्तते देवि ``नास्ति नास्ती'' ति ॥ ११॥
अन्नाद्रिमध्यविस्फुरदम्बुजमध्ये त्रिमण्डलान्तःस्थाम् ।
ध्यायेद्यो दारिद्र्याद्विमुच्यते साधकः स एवाशु ॥ १२॥
इन्द्राग्निसोमभास्करवरुणानिलघनदतार्क्ष्यकन्दर्पाः ।
विष्णुविरिश्चप्रमुखा देवास्त्वद्ध्यानसम्पदा प्रथिताः ॥ १३॥
युष्मदपाङ्गघनोऽयं प्रशमितबहुदुःखधर्मतापौघः ।
धारासारवनौघं वर्षतु मयि देवि सर्वदा कृपया ॥ १४॥
तत्र पाणिवल्लवस्था दर्वी दिव्यान्नपूरिता देवि ।
दारिद्र्यदोषमुग्रं शमयतु मम सम्पदां वृद्धयै ॥ १५॥
वीक्षस्व मामनेकामयदुरितदुरन्तदुःखपरितप्तम् । (परितप्ताम्)
मातर्विभूतिमय्या दिव्यामृतसारधारया दृष्टया ॥ १६॥
अभिनवभास्करकोटिप्रभासमुद्भासितं हि ते रूपम् ।
हृदयाम्बुजमध्यगतं देवि समाधौ भजन्ति योगीन्द्राः ॥ १७॥
आदौ सृजसि च विश्वं प्रपासि सचराचरं जगद् भृयः ।
संहरसि लोकमन्ते गुणत्रये सा त्वमेव देव्येका ॥ १८॥
मायोदधिरयमम्ब विषयग्राहोर्मिन्दारुणो भवति ।
त्वत्तापवाडवाग्नौ सोऽपि च विलयं प्रयाति तच्चित्रम् ॥ १९॥
श्रीमद्गुरुप्रसादात्तत्त्वं तव योऽभिवेत्ति लोकेऽस्मिन् ।
देवि स मनुजो लोके पारत्रिकमैहिकं शमभ्येति ॥ २०॥
हुतभ्रुङ्मण्डलमध्ये विलसितरविबिम्बमध्यगं त्वमृतम् ।
सोमात्मकं विदित्वा देवि त्वद्भावनेन पूतः स्यात् ॥ २१॥
गुरुवरपादपवित्रीकृतान्तरात्मा प्रतापयित्वा त्वाम् ।
देवि चिदग्नौ दीप्ते योगी योगामृतं जुहोत्येव ॥ २२॥
सकृदपि युष्मद्भक्तो दिव्यामृतमम्ब भावपात्रस्थम् ।
पिबति विदित्वा सम्यग् जीवन्मुक्तः स विज्ञेयः ॥ २३॥
योगामृतपूतात्मा योगी विजितेन्द्रियारिजितसङ्गः । (सङ्घः)
नहि जननीगर्भगृहं प्रविशति योगेशि योगभावितधीः ॥ २४॥
योगी त्वयाहिधत्ते संवित्तिपदे तदैव परितुष्टिम् । (त्वयाधिधत्ते)
विधिहरिरुद्रादीनां गणयति न पदानि देव्यनित्यानि ॥ २५॥
षट्त्रिंशत्तत्त्वाख्यं शिवादिभूम्यन्तमम्ब विश्वमिदम् ।
यस्योर्मिम्बुद्बुदः स्यात् तत्ते संवित्तिमाश्रये धाम ॥ २६॥
मूलाधारनिवासा सूक्ष्मा सूर्यायुतोपमा शक्तिः ।
निर्भिद्य षट्सरोजं यान्ती या सा त्वमेव शम्भुपदम् ॥ २७॥
षोडशपत्रसरोजात् स्रवन्महाधारया सहोद्दीप्ता ।
यान्ती मूलनिवासं या हि कुळा कुण्डली त्वमेवाम्ब ॥ २८॥
जित्वा षट् पञ्च पुनर्निरुध्य दशकं तथैकमवलम्ब्य ।
देवि तव रूपमब्जे हृदयस्थे संयमी स्मरति ॥ २९॥
स्थूलं तवाम्ब रूपं योगिमनःपद्मकर्णिकासंस्थम् ।
योगविवृद्ध्यै सिद्धिं मम दिशतु समस्तवाञ्छितावाप्त्यै ॥ ३०॥
सूक्ष्मं तवाम्ब रूपं सकलजगत्राणकारणोद्भूतम् ।
स्तोष्ये तदेव भक्त्या वाञ्छितसिद्धिप्रदानसुरवृक्षम् ॥ ३१॥
श्रीदुर्गा वाग्देवी गिरिजा लिपिमातृका च मातङ्गी ।
त्रिपुरा तथान्नपूर्णा राज्या रमा चेति कीर्तिता मुनिभिः ॥ ३२॥
वाग्देवीं वागाप्त्यै दुर्गां भयशान्तये श्रियं भूत्यै ।
आराधयति मनुष्यः पुरुषार्थचतुष्कलब्धये त्रिपुराम ॥ ३३॥
बहुरूपधारिणीं त्वां बहुधा प्रवदन्ति मानवा लोके ।
गुरुमन्त्रदेवतात्मस्वरूपिणीं भावयाम्यहं त्वेकाम् ॥ ३४॥
कथमम्ब रूपमाद्यं तव रूपगुणाधिकं च चिन्मात्रम् ।
जानामि देवि तस्माद् दुरुक्तमीशि क्षमस्व तत् सर्वम् ॥ ३५॥
दारिद्द्र्यदुरितदुःखप्रशान्तये व्याहृतं मया स्तोत्रम् ।
देवि सदा तं जपतां भक्तानां भवतु कामधेनुरिदम् ॥ ३६॥
स्तोत्रेण त्वं तुष्टा मयोदितेन प्रभूतधनधान्यैः !
पूरय वेश्म मदीयं विधेहि मयि सन्निधिं प्रपद्ये त्वाम् ॥ ३७॥
इति अन्नपूर्णास्तवः सम्पूर्णः ।
Proofread by Mohan Chettoor