अम्बिकास्तुतिः
ॐ महातीर्थरैवतगिरिमण्डने! जैनमार्गस्थिते! विघ्नभीखण्डने! ।
नेमिनाथाङ्घ्रिराजीवसेवापरे! त्वं जयाम्बे! जगञ्जन्तुरक्षाकरे! ॥ १॥
ह्रीं महामन्त्ररूपे! शिवे! शङ्करे! देवि! वाचालसत्किङ्किणीनूपुरे! ।
तारहारावलीराजितोरःस्थले! कर्णताडङ्करुचिरम्यगण्डस्थले! ॥ २॥
अम्बिके! ह्राँ स्फुरद्वीजविद्ये! स्वयं ह्रीं समागच्छ मे देहि दुःखक्षयम् ।
ह्रां ह्रूं तं द्रावय द्रावयोपद्रवान् ह्रीं द्रुहि क्षुद्रसर्पेभकण्ठीरवान् ॥ ३॥
क्लीँ प्रचण्डे! प्रसीद प्रसीद क्षणं ब्लूँ सदा प्रसन्ने! विधेहीक्षणम् ।
सः सतां दत्तकल्याणमालोदये! ह्स्क्ल्ह्रीं नमस्तेऽम्बिके! अङ्कस्थपुत्रद्वये ॥ ४॥
इत्थमद्भूतमाहात्म्यमन्त्रस्तुते! क्रोँसमालीढषट्कोणयन्त्रस्थिते! ।
ह्रींयुतेऽम्बे! मरुन्मण्डलालङ्कृते! देहि मे दर्शन ह्रीं त्रिरेखवृते! ॥ ५॥
नाशिताशेषमिथ्यादृशां दुर्मदे! शान्तिकीर्तिद्युतिस्वस्तिसिद्धिप्रदे! ।
दुष्टविद्याबलोच्छेदनप्रत्यले! नन्द नन्दाम्बिके! निश्चले! निर्मले! ॥ ६॥
देवि! कूष्माण्डि! दिव्यांशुके! भैरवे! दुःसहे दुर्जये! तप्तहेमच्छवे! ।
नाममन्त्रेण निर्नाशितोपद्रवे! पाहि मामंहिपीठस्थकण्ठीरवे! ॥ ७॥
देवदेवीगणैः सेविताङ्घ्रिद्वये जागरूकप्रभावैकलक्ष्मीमये! ।
पालिताशेषजैनेन्द्रचैत्यालये! रक्ष मां रक्ष मां देवि! अम्बालये! ॥ ८॥
अत्र स्तुतौ गुप्तीकृतो मन्त्रस्त्वेवम्-
ॐ ह्रीं अम्बिके! ह्रां ह्रीं ह्रां ह्रीं क्लीँ ब्लूँ सः ह्स्क्ल्ह्रीं नमः ।
इति अम्बिकास्तुतिः सम्पूर्णा ।
Proofread by DPD