श्रीअम्बिकास्तवनम्
महामात्यश्रीवस्तुपालविरचितं
पुण्ये गिरीशशिरसि प्रथितावतारामासूत्रितत्रितजगतीदुरिनापहाराम् ।
दौर्गत्यपातिजनताजनितावलम्वामम्वामहं महिमहैमवतीं ! महेयम् ॥ १॥
यद्वक्त्रकुञ्जरहरोदूगतसिंहनादोऽप्युन्मादिविघ्नकरियूथकधाममाथम् ।
कृऽष्माण्डि खण्डयतु दुर्विनयेन कण्ठः कण्ठीरवः स
तव भक्तिनतेषु भीतिम् ॥ २॥
कृष्माण्डि ! मण्डनमभूत्तव पादपद्मयुग्मं यदीयहृदयावनिमण्डलस्य ।
पद्मालया नवनिवासविशेपलाभलुब्धा न धावति कुतोऽपि ततः परेण ॥ ३॥
दारिद्र्यदुर्दमतमःशमनप्रदीपाः सन्तानकाननघनाघनवारिधाराः ।
दुःखोपतप्तजनबालमृणालदण्डाः कृष्माण्डि ! पातु पदपद्मनस्वांशवस्ते ॥ ४॥
देवि ! प्रकाशयति सन्ततमेष कामं वामेतरस्तव करश्चरणानतानाम् ।
कुर्वन् पुरः प्रगुणितां सहकारलुम्बिमम्बे ! विलम्बविकलस्य फलस्य लाभम् ॥ ५॥
हन्तुं जनस्य दुरितां त्वरिता त्वमेव निन्ये त्वमेव जिनशासनरक्षणाय ।
देवि ! त्वमेव पुरुषोत्तममाननीया कामं विभासि विभया सभया त्वमेव ॥ ६॥
तेषां मृगेश्वरगरज्वरमारिवैरिदुर्वार्वारणजलज्वलनोद्भवा भीः ।
उच्छुरङ्खलं न खलु खेलति येषु धत्से
वात्सल्यपल्लवितमम्बकमम्बिके ! त्वम् ॥ ७॥
देवि ! त्वदूर्जितजितप्रतिपन्थितीर्थयात्राविधौ बुधजनाननरङ्गसङ्गि ।
एतत्वयि स्तुतिनिभाद्भुतकल्पवल्लीहल्लीसकं सकलसङ्घमनोमुदेऽस्तु ॥ ८॥
वरदे ! कल्पवल्लि ! त्वं स्तुतिरूपे ! सरस्वति !।
पादाग्रानुगतं भक्तं लम्भयस्वातुलैः फलैः ॥ ९॥
स्तोत्रं श्रोत्ररसायनं श्रुतसरस्वानम्बिकायाः पुर-
श्चक्रे गूर्जरचक्रवर्तिसचिवः श्रीवस्तुपालः कविः ।
प्राप्तः प्रातरधीयमानमनघं यच्चित्तवृत्तिं सता-
माधत्ते विभुतां च ताण्डवयति श्रेयःश्रियं पुष्यति ॥ १०॥
इति महामात्यश्रीवस्तुपालविरचिता अम्बिकास्तुतिः सम्पूर्णा ।
Proofread by DPD