श्रीअम्बिकादेवीस्तुतिः
श्रीजिनेश्वरसूरिविरचिता
देवगन्धर्वविद्याधरौर्वन्दिते जय जयामित्रवित्रासने विश्रुते ।
नूपुरारावसुनिरुद्धभुवनोदरे मुखरतरकिङ्किणीचारुतारस्वरे ॥ १॥
ॐ ह्रीं मन्त्ररूपे शिवे शङ्करे अम्बिके देवि ! जय जन्तुरक्षाकरे ।
स्फुरत्तारहारावलीराजितोरःस्थले कर्णताटङ्करुचिरम्यगण्डस्थले ॥ २॥
स्तम्भिनी मोहिनी ईश उच्चाटने क्षुद्रविद्राविणी दोषनिर्णाशिनी ।
जम्भिनी भ्रान्तिभूतग्रहस्फोटिनी शान्तिधृतिकीत्तिम्मतिसिद्धिसंसाधिनी ॥ ३॥
ॐ महामन्त्रविद्येऽनवद्ये स्वयं ह्रीं समागच्छ मे देवि दुरितक्षयम् ।
ॐ प्रचण्डे प्रसीद प्रसीद क्षणं (हे) सदानन्दरूपे विधेहि क्षणम् ॥ ४॥
ॐ नमो देवि दिव्येश्वभे भैरवे जयेऽपराजिते तप्तहेमच्छवे ! ।
ॐ जगज्जननि संहारसम्मार्जनी ह्रीं कूष्माण्डि ! दिव्याधिविध्वंसिनी ॥ ५॥
पिङ्गतारोत्पतद्भीमकण्ठीरवे नाममन्त्रेण निर्णाशितोपद्रवे ।
अवतरावतर रैवतगिरिनिवासिनि अम्बिके ! जय जय त्वं जगत्स्वामिनी ॥ ६॥
ह्रीं महाविध्नसङ्घातनिर्णाशिनी दुष्टपरमन्त्रविद्याबलच्छेदिनी ।
हस्तविन्यस्तसहकारफललुम्बिका हरतु दुरितानि देवी ! जगत्यम्बिका ॥ ७॥
इति श्रीजिनेश्वरसूरिभिरम्बिका भगवती शुभमन्त्रपदैः स्तुता ।
प्रवरपात्रगता शुभसम्पदं वितरतु प्रणिहन्त्वशिवं मम ॥ ८॥
इति श्रीजिनेश्वरसूरिविरचिता श्रीअम्बिकादेवीस्तुतिः सम्पूर्णा ।
Proofread by DPD