अखिलाण्डेश्वरीपुष्पमालास्तोत्रम्
अध्वातीतपदे अलङ्कृतशिवे अर्थान्तरर्थे परे
अत्यर्थे अमलाशये अतिदये अर्धेन्दुभूषोज्ज्वले ।
अध्यक्षे अमराङ्गनापरिवृते अध्यात्मविद्यामये
अव्यक्ते अचलाधिराजतनये वन्देऽखिलाण्डेश्वरि ॥ १॥
आद्ये आगमसम्प्रदायनिपुणे आचार्यवर्यार्चिते
आधारादिसरोजपीठनिलये आलोलनीलालके ।
आताम्राधरचारुमन्दहसिते आपीनवक्षोरुहे
आब्रह्माच्युतशङ्करार्चितपदे वन्देऽखिलाण्डेश्वरि ॥ २॥
इच्छाज्ञानसमस्तशक्तिसहिते इन्दीवरश्यामले
इन्द्रोपेन्द्रवरपदे इभवनाधीशे इनाराधिते ।
इज्ये इन्दुनिभानने इभनुते इष्टार्थसिद्धिप्रदे
इन्द्राणीनमिते इभाननसुते वन्देऽखिलाण्डेश्वरि ॥ ३॥
ईशे ईशविरिञ्चिशौरिवरदे ईड्यालि ईशात्मिके
ईर्ष्यादूषितचित्तदूरचरणे ईशप्रिये ईश्वरि ।
ईडये ईश्वरवामभागनिलये ईङ्कारक्लृप्तोदये
ईशित्वादिमहाविभूतिनिलये वन्देऽखिलाण्डेश्वरि ॥ ४॥
उद्यद्भानुसहस्रकोटिकिरणे उर्वीधरेन्द्रात्मजे
उत्फुल्लाम्बुजलोचने उभयकावेर्यन्तरालाश्रये ।
उद्यच्चन्द्रनिभानने उरुतरे उच्चासने उज्ज्वले
उद्दामद्युतिपुञ्जमञ्जुलतरे वन्देऽखिलाण्डेश्वरि ॥ ५॥
ऊहापोहविवेकबाह्यनिलये ऊनातिरिक्तोज्ज्वले
ऊर्जस्वन्मणिमेखलाविलसिते ऊरीकृतार्थप्रिये ।
ऊर्ध्वाधोद्भवयोगमूलनिलये ऊष्मापहारोज्ज्वले
ऊधः क्षीरसुधाधृतत्रिभुवने वन्देऽखिलाण्डेश्वरि ॥ ६॥
ऋग्वेदादिनिषेविते ऋतुनते ऋद्धानुकम्पावहे ।
ऋद्धामोदमुखेप्सिते ऋतुनुते ऋक्षौघसंसेविते ।
ऋक्षाधीशकलान्विते ऋणतमोभास्वत्पदाम्भोरुहे
ऋद्ध्यापूरितविष्टपत्रयनुते वन्देऽखिलाण्डेश्वरि ॥ ७॥
रूपारूपसदाशिवान्तरगते रूपे सदा रूपिणि
रूपातीतपरापरार्थनिलये रूढप्ररूढात्मिके ।
नॄणां जन्मजरापहारनिलये नृत्राणकल्पद्रुमे
नॄणां पापविमोचनाद्यफलदे वन्देऽखिलाण्डेश्वरि ॥ ८॥
क्लृप्ताशेषजगन्महेशनिलये क्लृप्ताङ्गरागोज्ज्वले
क्लृप्ताक्लृप्तविशङ्क्यमानविलसन्मध्यावलीरञ्जिते ।
लिङ्गाराधनतत्परे लिकुचराजत्पाणिपङ्केरुहे
क्लृप्ताकल्पमनोहराङ्गलतिके वन्देऽखिलाण्डेश्वरि ॥ ९॥
लूताधीशगजेन्द्रपूजितपदे लूनाहितेशान्विते।
क्लीङ्काराङ्कित बिन्दुपीठनिलये क्लीङ्काररूपेडिते ।
लूतातन्तुजडीकृतेशनिलये लूनाहिवल्लीदले
लूताक्ष्मापतिमुक्तिदातृमहिले वन्देऽखिलाण्डेश्वरि ॥ १०॥
एके एकमहाम्बुराशिनिलये एकान्तक्लृप्तोदये
एकानेकतया विभक्तभुवने एकातपत्रोज्ज्वले ।
एणीचारुविलोललोचनयुगे एकावलीभूषणे
एतत्तत्त्वमयाणिमादिवरदे वन्देऽखिलाण्डेश्वरि ॥ ११॥
ऐङ्कारासनमध्यपीठनिलये ऐन्द्रादिलोकप्रदे
ऐरावत्युपमानदेहलतिके ऐन्द्रादिशक्तीडिते ।
ऐङ्काराक्षरवेदवेद्यविभवे ऐश्वर्यदानेक्षणे
ऐमैमित्यनुसन्दधानभुवने वन्देऽखिलाण्डेश्वरि ॥ १२॥
ओमित्येकपदावलीडितपदे ओजोविशेषान्विते
ओष्ठाधावितबिम्बविद्रुमलते ओघत्रयाराधिते ।
ओघैरप्सरसां सदापरिवृते ओताखिलार्थाधिपे
ओजोराजितवाग्विभूतिविनुते वन्देऽखिलाण्डेश्वरि ॥ १३॥
औशीरादिसुगन्धिशोभनकचे औत्पत्तिजालप्रिये
औदासीन्यविभिन्नदैत्यविभवे औपाधिकोपान्विते ।
औदार्याकरपादपङ्कजयुगे औपम्यहीनानने
औमाकान्तपदप्रदार्तिहपदे वन्देऽखिलाण्डेश्वरि ॥ १४॥
अम्भोजासनमुख्यसेवितपदे अम्भोधरश्यामले
अङ्गाकल्पितरत्नभूषणशते अण्डौघसंसेविते ।
अम्ब्वाकाशतया विभक्तभुवने अम्भोरुहाङ्घ्रिद्वये
अह्नायान्तकसूदनप्रियतमे वन्देऽखिलाण्डेश्वरि ॥ १५॥
अस्ताघे अवनम्रदेवनिवहे अस्तोकभाग्योदये
अर्धाधिक्यमनोहरे अचलजे अष्टाक्षरैरर्चिते ।
अर्घातीतमनोज्ञभूषणशते अक्षीणसौभाग्यदे
अर्काम्भोरुहवैरिवह्निनयने वन्देऽखिलाण्डेश्वरि ॥ १६॥
कावेरीपुलिनालये कमलजे कामारिवामालये
कारुण्यामृतलोचने कविनुते कन्दर्पकान्तिप्रदे ।
कल्याणि क्षितिलोककल्पलतिके कारुण्यवारान्निधे
कालाम्भोधरकम्रकुण्डलधरे वन्देऽखिलाण्डेश्वरि ॥ १७॥
खर्वाटे खगकेतनानुजवरे खट्वाङ्गपाणिस्तुते
खर्वाखर्वविवर्जिते खगमयूखाराधिते खड्गिनि ।
खद्योतेशवरप्रदे खगनुते खद्योतकोटिप्रभे
खण्डेन्दूज्ज्वलशेखरे खगचरे वन्देऽखिलाण्डेश्वरि ॥ १८॥
गङ्गावर्तसमाननाभिकुहरे गण्डोज्ज्वलत्कुण्डले
गन्धर्वासुरसिद्धकिन्नरनुते गन्धोत्तमालेपिते ।
गम्भीरामृतसिन्धुमध्यनिलये गाम्भीर्यधैर्याधिके
गङ्गोत्तुङ्गतरङ्गशेखरयुते वन्देऽखिलाण्डेश्वरि ॥ १९॥
गीतानन्दमये गिरीशनमिते गीतप्रियाराधिते
गीतोल्लासिनि गीयमानचरिते गीर्नाथसंसेविते ।
गीष्पद्मावरदे गिरीन्द्रनिलये गीर्वाणवृन्दाञ्चिते
गीते गीतमनोहरे गिरिसुते वन्देऽखिलाण्डेश्वरि ॥ २०॥
गुप्ते गुप्ततरे गुहेशवरदे गुच्छोज्ज्वलन्मल्लिके
गुह्याचारगते गुरुस्तनभरे गुच्छार्धहारोज्ज्वले ।
गुल्फस्थे गुणमन्दिरे गुरुवरे गुल्फोल्लसन्नूपुरे
गूढार्थान्तगते गुरूत्तमनुते वन्देऽखिलाण्डेश्वरि । २१
घण्टाघोरनिनादघातितमहादैत्ये घनश्यामले
घर्माघर्ममयूखवह्निनयने घर्मप्रशान्तिप्रदे ।
घोराघोरविघोषदानवगणप्रोद्घुष्टघोरारवे
घोराघौघनिवारणे घननिभे वन्देऽखिलाण्डेश्वरि ॥ २२॥
चातुर्वर्ग्यफलप्रदे सुचरिते चामुण्डिरूपोत्तरे
चक्राधिष्ठितपादपद्मचतुरे चन्द्रानने चण्डिके ।
चन्द्रोपेन्द्रचराचरात्मकजगद्रूपे चलत्कुण्डले
चञ्चल्लोचनवञ्चितेश्वरशिवे वन्देऽखिलाण्डेश्वरि ॥ २३॥
छिद्रघ्नस्मितचन्द्रिकाधवलिते छायेश्वरद्योतिते
छन्दान्दोलितभूषणाङ्कितगले छन्दश्रियालङ्कृते ।
छायाधीश धनञ्जयेन्दुनयने छन्नान्धकारारुणे
छन्दोवृन्दमहस्सुकान्तिनिलये वन्देऽखिलाण्डेश्वरि ॥ २४॥
जम्बूमूलनिधे जनार्दननुते जम्भारिसम्भाविते
जम्बूद्वीपमनोज्ञकल्पलतिके जह्न्वात्मजाशेखरे ।
जन्मव्याधिजरापहे जलमये जाम्बूनदालङ्कृते
जम्बूनाथमनोहरे जननुते वन्देऽखिलाण्डेश्वरि ॥ २५॥
झञ्झावाततरङ्गितप्रविमल श्रीनिर्झराप्लाविते
झङ्कारीकृतषट्पदालकभरे झाटित्यबुद्धिप्रदे ।
झर्झारारवभूषणे झलझलन्मञ्जीरपादाम्बुजे
झल्लीमद्दलझर्झरस्वननुते वन्देऽखिलाण्डेश्वरि ॥ २६॥
ज्ञानानन्दमहासमुद्रतरणे ज्ञानात्मरूपापरे
ज्ञानज्ञेयमये त्वदङ्घ्रिभजतां ज्ञानप्रदेऽज्ञानिनाम् ।
ज्ञानाज्ञानमयस्वरूपिणि शिवज्ञानप्रकाशप्रदे
ज्ञातिक्षेत्रकलत्रधान्यधनदे वन्देऽखिलाण्डेश्वरि ॥ २७॥
टक्काद्यायुधभूषणोज्ज्वलकरे ठावेक्ष्यमानानने
डिम्भाहुङ्कृतढङ्कृतासुरशरे डोलाडिढेशस्मिते ।
डिम्भाकारतया सुपालितजने ढक्कारवोद्घोषिते
ढण्ढण्डेति झटिक्वणादिमहिते वन्देऽखिलाण्डेश्वरि ॥ २८॥
तत्त्वार्थप्रतिपाद्यमानचरणे तत्त्वत्रयोद्दीपिके
तत्त्वातीतपदे तपोधननुते तारेशचूडामणे ।
तारुण्यामृतसिन्धुमध्यलतिके तार्क्ष्यध्वजाराधिते
तापिच्छस्तबकद्युते तनुलते वन्देऽखिलाण्डेश्वरि ॥ २९॥
स्थाणुप्रेमनिधे स्थितीशमहिते स्थैर्यस्थिते स्थापिके
स्थानास्थानकृतार्थदेहिनिवहस्थित्यन्तसर्गोद्यते ।
स्थानाधिक्यमनोहरे स्थिरतरस्थाण्वन्तरालाश्रये
स्थूलागोचरदर्शने स्थितिमये वन्देऽखिलाण्डेश्वरि ॥ ३०॥
दाक्षाचारवरप्रदे दमयुते दक्षे दयाङ्कूरिते
दान्ते द्रष्टृमनोहरद्विजवरे दन्तावलाराधिते ।
दानादानविदानचोदनपरे दातृस्वरूपापरे
दैन्याध्यात्मिकतापहारिचरणे वन्देऽखिलाण्डेश्वरि ॥ ३१॥
दिव्यज्ञानमये दिवाकरनिभे दिव्याम्बरालङ्कृते
दिव्यस्त्रीजनसेविते द्विजमये दीक्षाप्रदानोद्यते ।
दीप्ते दीप्तशशाङ्कवह्निनयने दीनादिमुक्तिप्रदे
दिक्पालादिदिगम्बरार्चितपदे वन्देऽखिलाण्डेश्वरि ॥ ३२॥
दुर्भिक्षादिसमस्तदुःखहरणे दुःशीलतापापहे
दुर्गाद्यावृतिदेवतार्चितपदे दूर्वाङ्कुरश्यामले ।
दुर्लक्ष्यागमचित्तदूरचरिते दुर्गादिवस्यापरे
दुर्वासादिमुनीश्वरस्तुतिपदे वन्देऽखिलाण्डेश्वरि ॥ ३३॥
धर्मिष्ठे धरणीधरेन्द्रतनये धाराधरोद्यत्प्रभे
धम्मिल्लाञ्चितमल्लिकादिकुसुमे धर्मादिसंसेविते ।
धर्माद्यर्थचतुष्टयस्थितिपदेधामत्रयाराधिते
धन्ये धार्मिकचित्तनित्यनिलये वन्देऽखिलाण्डेश्वरि ॥ ३४॥
नानारत्नविभूषणे नवघनश्यामे नटेशप्रिये
नक्षत्रेशधरे नगेन्द्रनिलये नागारिवाहानुजे ।
नानादेववृते नरोत्तमनुते नाथे नृमुक्तिप्रदे
नाकौकोगणनम्यमानचरणे वन्देऽखिलाण्डेश्वरि ॥ ३५॥
नीहाराचलकन्यके निगमगे नित्यात्मिके निर्मले
निःशेषाण्डसुमातृके निशिचराराध्ये निशीशाङ्कि(ञ्चि)ते ।
नीपारण्यनिवासनित्यरसिके निर्निद्रपद्मेक्षणे
निःशोकाकृतिके निरञ्जनपदे वन्देऽखिलाण्डेश्वरि ॥ ३६॥
पद्मे पद्मनिभानने परतरे पद्मार्चिताङ्घ्रिद्वये
पद्मस्ते परदानवारिविनुते पद्मासनाराधिते ।
पद्मास्ये परलोकसाधनपरे पञ्चाक्षरालङ्कृते
पक्षापक्षविवर्जिते परशिवे वन्देऽखिलाण्डेश्वरि ॥ ३७॥
फुल्लाम्भोजदलेक्षणेन्दुविकृतालीकाभिरामानने
फूत्काराहिफणाधरेन्द्ररमणीनृत्तान्तरालस्थिते ।
स्फायत्पण्डितसूक्तिमर्मविभवे स्फाटिक्यतेजोमय-
स्फूर्जत्कान्तिमये फणीन्द्रवरदे वन्देऽखिलाण्डेश्वरि ॥ ३८॥
बालेऽबालपराक्रमे बहुविधे बालप्रवालाधरे
बालादित्यसमप्रभे बहुनुते बालेन्दुभूषोज्ज्वले ।
बन्धुकारुणविग्रहे बहुविधब्रह्माण्डभाण्डोदरि
ब्रह्मागस्त्यसुरेन्द्रवन्दितपदे वन्देऽखिलाण्डेश्वरि ॥ ३९॥
भावातीतपदप्रवर्तितगुणे भाषे भवाराधिते
भावाद्ये भवरोगभञ्जनकरे भद्रे भयच्छेदिनि ।
भव्ये भाग्यवदुत्तमेड्यचरणे भागीरथीशान्विते
भास्वच्चन्द्रविलोचनार्चितपदे वन्देऽखिलाण्डेश्वरि ॥ ४०॥
माये मन्मथसेविते मरकतश्यामे मनोज्ञामले
मायामोहविवर्जिते मणिमयाकल्पे महामञ्जुले ।
मायातीतमहामुनीद्रवरदे माणिक्यकेयूरके
मालालङ्करणे मतङ्गतनये वन्देऽखिलाण्डेश्वरि ॥ ४१॥
मित्राग्नीन्दुविलोचने मिहिरभे मीनोल्लसल्लोचने
मिथ्याज्ञानमनोऽतिदूरचरणे मीनध्वजाराधिते ।
मीमांसादि समस्त शास्त्रमहिते मृष्टान्नदानोद्यमे
मित्रोद्भासिनि मित्रवह्निविनुते वन्देऽखिलाण्डेश्वरि ॥ ४२॥
मुग्धे मुग्धशशाङ्कशेखरयुते मूलागमार्थोदये
मुक्ते मूषिकवाहनार्चितपदे मूर्तित्रयाराधिते ।
मलाधारगते मुखाब्जविलसन्मुग्धस्मिते मुक्तिदे
मुद्रामोदितमानसे मुनिनुते वन्देऽखिलाण्डेश्वरि ॥ ४३॥
यज्ञे यज्ञफलप्रदे यमनुते यक्षेश्वराराधिते
यक्ष्मघ्ने यमसूदनप्रियतमे यज्ञेशसम्पूजिते ।
यन्त्रस्थे यतिपूजिते यतिकृतश्रीचक्रभूषोज्ज्वले
यक्षिण्यादिसमस्तशक्तिविनुते वन्देऽखिलाण्डेश्वरि ॥ ४४॥
रामे रामवरप्रदे रसकले राजीवपत्रार्चिते
राकाचन्द्रनिभे रमार्चितपदे राजाधिराजानते ।
रम्ये राजतशैलशृङ्गनिलये रत्याप्तपत्या नुते
रागद्वेषविहीनचित्तसुलभे वन्देऽखिलाण्डेश्वरि ॥ ४५॥
लावण्याम्बुनिधे ललाटनयने लम्बोदराराधिते
लाक्षारञ्जितपादपद्मयुगले लम्बालकोद्भासिते ।
लङ्केशारिनुते लयोद्भवकरे लक्ष्मीपतीड्यप्रिये
लक्ष्यालक्ष्यमनोज्ञमध्यलतिके वन्देऽखिलाण्डेश्वरि ॥ ४६॥
वाच्ये (वामे) वारिजलोचनार्चितपदे वाग्देवताऽऽराधिते
वामाद्ये वरशैलराजतनये वामादिशक्त्यात्मिके ।
वश्याकर्षणसिद्धिमूलगुलिके वादित्रनादप्रिये
वाणीवल्लभवज्रपाणिवरदे वन्देऽखिलाण्डेश्वरि ॥ ४७॥
शान्ते शङ्करवल्लभे शशियुते शातोदरि श्यामले
शङ्काहीनविशोकदे शतमखाराध्ये शशाङ्कानने ।
शक्ते शक्तिधरार्चिते शमधनाधीशार्चिते शारदे
शैवाद्यागमपारगे शमधने वन्देऽखिलाण्डेश्वरि ॥ ४८॥
षट्चक्रान्तगते षडक्षरमये षट्त्रिंशतत्त्वात्मिके
षट्पद्मान्तपुरे षडानननुते षट्कोणसम्भाविते ।
षड्वक्त्रद्विपवक्त्ररामवरदे षड्ग्रन्थिवन्द्यात्मिके
षट्शक्तिप्रभवात्मनः प्रियतमे वन्देऽखिलाण्डेश्वरि ॥ ४९॥
सर्वाभीष्टफलप्रदे सुमतिभिः संसेविते सात्त्विकैः
सर्वालङ्करणे सदाशिवमये सम्पत्करे साक्षिणि ।
सादिस्थे सरसीरुहाक्षियुगले सङ्घट्टवक्षोरुहे
साक्षात्कारिणि सर्वलोकवरदे वन्देऽखिलाण्डेश्वरि ॥ ५०॥
हाहाकाररवैस्त्रिभिः स्तुतपदे हाराभिरामेऽसमे
हंसोल्लासितरम्यविश्वविभवे हम्बीजमूलाङ्कुरे ।
हस्थे हस्तिवनालये हरिहरब्रह्मेन्द्रवन्द्येश्वरि
हंसातीतपदे हकारचरिते वन्देऽखिलाण्डेश्वरि ॥ ५१॥
ळम्बीजे लकुळे लतामृदुतनो ळङ्कारसम्पूजिते
ळम्बीजेन सुलक्षितेड्यविभवे क्लीङ्काररूपान्विते ।
ळान्ते हन्त गरे जवात्समुदिते त्रस्तान्सुरान्वीक्ष्य तत्
ळान्ते के विनियच्छदीशमहिळे वन्देऽखिलाण्डेश्वरि ॥ ५२॥
क्षोणीशाग्र्यपदैकलक्षणविधिक्षेपप्रमाणेक्षणे
क्षिप्रादक्षिणकुक्षिशिक्षणमनःक्षेत्रज्ञसंरक्षिणि ।
त्र्यक्षालक्ष्यतितिक्षुदक्षदमनक्षान्तान्तसंवीक्षणे
क्षन्तव्यं क्षितिभृत्सुते स्तुतिवचः क्षुद्रं मदीयं शिवे ॥ ५३॥
इति गिरिवरपुत्रीपादराजीवभूषा
भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
शिवपदमकरन्दस्यन्दिनी मन्निदाना
मदयतु कविभृङ्गान्मातृकापुष्पम् ॥ ५४॥
इति अखिलाण्डेश्वरीपुष्पमालास्तोत्रं सम्पूर्णम् ।
अक्षरमालिका
Encoded and proofread by PSA Easwaran