अभिरामिस्तोत्रम्
नमस्ते ललिते देवि श्रीमत्सिंहासनेश्वरि ।
भक्तानामिष्टदे मातः अभिरामि नमोऽस्तुते ॥ १॥
चन्द्रोदयं कृतवती ताटङ्केन महेश्वरि ।
आयुर्देहि जगन्मातः अभिरामि नमोऽस्तुते ॥ २॥
सुधाघटेशश्रीकान्ते शरणागतवत्सले ।
आरोग्यं देहि मे नित्यमभिरामि नमोऽस्तुते ॥ ३॥
कल्याणि मङ्गलं देहि जगन्मङ्गलकारिणि ।
ऐश्वर्यं देहि मे नित्यमभिरामि नमोऽस्तुते ॥ ४॥
चन्द्रमण्डलमध्यस्थे महात्रिपुरसुन्दरि ।
श्रीचक्रराजनिलये अभिरामि नमोऽस्तुते ॥ ५॥
राजीवलोचने पूर्णे पूर्णचन्द्रविधायिनि ।
सौभाग्यं देहि मे नित्यमभिरामि नमोऽस्तुते ॥ ६॥
गणेशस्कन्दजननि वेदरूपे धनेश्वरि ।
विद्यां च देहि मे कीर्तिमभिरामि नमोऽस्तुते ॥ ७॥
सुवासिनीप्रिये मातः सौमाङ्गल्यविवर्धिनी ।
माङ्गल्यं देहि मे नित्यमभिरामि नमोऽस्तुते ॥ ८॥
मार्कण्डेय महाभक्त सुब्रह्मण्य सुपूजिते ।
श्रीराजराजेश्वरी त्वं ह्यभिरामि नमोऽस्तुते ॥ ९॥
सान्निध्यं कुरु कल्याणी मम पूजागृहे शुभे ।
बिम्बे दीपे तथा पुष्पे हरिद्राकुङ्कुमे मम ॥ १०॥
अभिराम्या इदं स्तोत्रं यः पठेच्छक्तिसन्निधौ ।
आयुर्बलं यशो वर्चो मङ्गलं च भवेत्सुखम् ॥ ११॥
इति अभिरामिस्तोत्रं सम्पूर्णम् ।