छायाविंशतिः
गुरूणां विद्यासौ स्फुरितकरुणोदन्वदुदित-
प्रभावेन्दुज्योत्स्ना हृदयकुमुदोद्भेदनपटुः ।
यया सूक्तिस्रोतःस्रवदमृतया ध्वस्ततमसा
प्रकाश्यन्ते सर्वा अपि सपदि शास्त्रार्थककुभः ॥ १॥
अनीशामीशानीं वदति निरयाणां प्रशमदो
गुरुः कल्याणीं यामथ च सकलां पूर्वपरगाम् ।
सिता पीता रागोज्ज्वलिततनुरुद्धारसहिता
विचित्रा प्रोक्ता सा मनसि रमतां मे भगवती ॥ २॥
मनोवाग्दुःस्पर्शे मुररिपुविधात्रोरपि तव
स्वरूपे जात्यन्धः कथमिव करोमि स्तुतिमहम् ।
दिशो लक्षीकृत्य प्रहित इव बाणोऽयमथवा
मदीयो वाग्बन्धस्त्वयि पतति सर्वात्मवपुषि ॥ ३॥
शिवं गुर्वात्मानं गुरुमपि शिवात्मानमसकृत्
प्रणम्यान्तर्भक्त्या स्रजमिव तदाज्ञां च शिरसा ।
दृशावानन्दास्रैः कुसुमनिकरैरञ्जलिपुटं
प्रपूर्यान्तःप्रेम्णा प्रणतवरदां नौमि भवतीम् ॥ ४॥
रसार्द्रा वा कामं रसविरहिता वा स्तुतिरसा-
वसाध्वी साध्वी वा न खलु गुणदोषौ भवतु नः ।
यथात्मानं दृष्टिर्मुकुरपतिता पश्यति तथा
गिरं त्वां गीर्भिस्त्वं यन्मुखगता स्तौषि वरदे ॥ ५॥ (मममुखगता)
समुद्भूता चोच्चैःस्थितिमुपगतात् केशवपदात्
स्थिता गौरीशेन स्वपदपरिपूजाहितमुदा ।
शुचिश्रीमत्तीर्था शिवगुरुगिरिप्राप्तमहिमा
स्वरूपं ते विद्या मम भजतु गङ्गेव जलधिम् ॥ ६॥
अयं तेजोवर्णः कविभिरुदितो वाग्भव इति
स्फुरद्बिन्दुद्भेदस्त्रिगुणतनुराधारविततः ।
समुद्बुद्धो यस्य व्रजति सहसा ब्रह्म सदनं
स योगी चोद्बुद्धो व्रजति सहसा ब्रह्मसदनम् ॥ ७॥
विदुर्ब्राह्मीं केचित् किल विषमभिन्नां तदितरे
तथाप्येका सा ते तनुरिति वयं निश्चिनुमहे ।
प्रभेदो वाग्वाणी वच इति समाख्यासु बहुधा
स्वयंवाच्ये शब्दे न भवति पुनः काचन भिदा ॥ ८॥
द्वितीयः कामात्मा स्फुरति तव लीनो हृदि सदा
स बिन्दुः सन्नादो भगवति मुदां बीजमिव यः ।
स्मिते यस्मिन् क्षुभ्यत्यखिलमपि चन्द्रोदयगळ-
न्महाम्भोधिप्रख्यं भवनमबलां किं पुनरमूम् ॥ ९॥
मनोरम्यः सौम्यः प्रशमिततमो येन शिरसि
स्मृतो बीजात्मा ते भगवति मुदां बीजमिव यः ।
वचोवीचीवेगोद्धतिविधुतविध्वस्तगरिम
क्षिपेत् क्षिप्रं वादिप्लवकुलमसावम्बुधिरिव ॥ १०॥
स्वमूर्ध्नि ध्यातायास्तव धवलपीठाब्जगदिता
सुधाम्भोवृष्टिर्या स्फुटपुळकसस्याङ्कुरसुहृत् ।
पुनः सूक्तिच्छद्मा श्रुतिचुळुकपेया मुखशशि-
प्रणाळीवान्ता सा सरिदिव सरीसर्ति सरसा ॥ ११॥
प्रमोदेन्दुक्लिन्नं नयनशशिकान्तात्समुदितं
यदम्भस्त्वद्रूपं स्मृतिमयसुखास्वादसुखिनः ।
न तद् बाष्पं मन्ये समुपनतलक्ष्मीकरपुट-
त्रिलोकीराज्याप्ते रुचितमभिषेकाम्बु गळति ॥ १२॥
चिदात्मा ते विद्युत्कणरुचिरणोरप्यणुतरो
निरीक्ष्यो यो बिन्दुः क्षणमपि दृशा सूक्ष्मतरया ।
सशैलाब्धिद्वीपं सकलमपि स ब्रह्मसदनं
तदन्तःसंलीनं तत उदितमत्यद्भुतमिदम् ॥ १३॥
अजप्ता जप्ता वा स्वयमतिमहान्तोऽतिलघवः
सकीला निष्कीला गुरुभिरुपदिष्टा अपि न वा ।
प्रसन्नायां देवि त्वयि सकलतन्त्राश्च फलदा-
स्तरुर्मूले सिक्तः फलति खलु शाखाशतमयः ॥ १४॥
यशोवश्यैश्वर्यद्रविणकविताद्यैहिकफलं
लघु प्राप्तुं यस्त्वां भजति परमानन्दफलदाम् ।
सुमेरुं माषार्घं सुरभिमपि तक्रं सुरतरुं
सुजीर्णं कौपीनं सुजळमतिरभ्यर्थयति सः ॥ १५॥
तव ध्यात्वा मूर्तिं जतुरसजपापुष्पसदृशीं
नरस्तस्यां यो निक्षिपति कुसुमान्यर्चनविधौ ।
ध्रुवं तैरेवाशु स्मरविशिखभूतैः स्वहृदये
विलासिन्यो विद्धा विदधति तदङ्के विलुठनम् ॥ १६॥
नृमुण्डैराबद्धां स्रजमुरसिजाभोगलुठितां
दधानामारक्तांशुककिसलयां किंशुकनिभाम् ।
चतुर्बाहु चन्द्रावयवसुमनश्शेखरजटां
प्रणौमि त्वां प्रेतासनमुपगतां भैरववधूम् ॥ १७॥
शिरश्चन्द्रच्छायाप्रसरपुनरुक्तस्मितरुचिं
वपुर्लक्ष्मीलब्धाधिकसितमहार्घाम्बरधराम् ।
वरोद्युक्तां साक्षस्रजमभयदां पुस्तकधरां
सकृद् यस्त्वां भक्त्या प्रणमति नमाम्यम्ब तमहम् ॥ १८॥
यजन्ते येऽष्टाभिर्दिनमनु विधानेन सुभगा
भगाद्याभिस्ताभिर्भगवति शिवे त्वां परिवृताम् ।
क्षमाभृतिरूपातिद्युतिमतिधृतिश्रीसुभगता-
परीताः पूज्यन्ते स्वयमनु जनैस्ते सुकृतिनः ॥ १९॥
यथोक्तं यैरिष्टो विधिविरचिताष्टाष्टकभिदा
गणो मातॄणां ते गहनमहिमा भैरवसखः ।
स्फुरद्विद्यादीपद्युतिविततिसन्दर्शितपदाः
प्रयान्ति त्वत्स्थानं पुनरपुनरावर्तनममी ॥ २०॥
यथैकश्चैकस्थः स्वयमपिहितात्मा दिनकरो
विभाति छायावान् बहुषु जलकुम्भेषु बहुवत् ।
तथैवैका बह्वी स्फुरति शबरीशौरितनया-
रमावाणीकाळीरतिधृतिधरण्यादितनुभिः ॥ २१॥
नरात्मा नारीत्वे तरुरपि लतात्वे तव मृगो
मृगीत्वे लक्ष्मीत्वे हरिरपि शचीत्वे शतमखः ।
उमात्वे रुद्रात्मेत्यथ तदनुरूपाकृतिरसौ
शिवः सर्वत्रापि स्वयमनुचरत्यम्ब भवतीम् ॥ २२॥
स्त्रियो यास्त्रैलोक्ये विदधति च या संसृतिरसं
विना याभिः सृष्टिः क्वचिदपि न काचित् प्रसरति ।
विना याभिर्मुद्यत्यपि जयति याभिर्मनसिजः
समस्ताभ्यस्ताभ्यो भगवति तनूभ्यस्तव नमः ॥ २३॥
शिवे विद्ये देवि त्रिभुवनजनन्यम्ब शबरि
क्रिये श्रद्धे मेधे सति गिरिसुते वाणि परमे ।
महामाये नित्ये मधुमति महाभैरवि रमे ।
भवानि श्रीः शक्ते भगवति नमस्तेऽहमकृषि ॥ २४॥
श्रियं पृष्ठे कृत्वा हृदि तव पदाम्भोजयुगळीं
वयं वाणीपुष्पैः स्रजमरचयाम स्तुतिमयीम् ।
स्वयं गृह्णीष्वैनां शरणमनुगृह्णातु भवती
त्वदीया भूयास्म त्वयि भवतु भक्तिः स्थिरतरा ॥ २५॥
सदा सूक्तिध्यानामृतरसनिषेकोत्थपुळक-
प्ररोहाः स्वान्ते त्वत्पदकिसलयं देवि दधति ।
स्फुरन्त्येवाभीष्टाश्चुलुकपुटिकाकोमलपुट-
स्फुरत्पूजापुष्पान्वयसमुदिता भक्तिललिताः ॥ २६॥
(This stotra is in praise of Devi, describing her in several aspects.
The title of the stotra denotes the fact that though
Goddess is praised in different forms as ramA, vANI,
kAlI etc, She is one and the same, just like the same
sun is reflected in different forms in different waters.)
इति छायाविंशतिः समाप्ता ।
Proofread by Mohan Chettoor