आर्याभ्यर्चना
शोधय मानस-सरणिं, बोधय विज्ञान कोरकाण्यभितः ।
साधय सकल-मनोरथमपार-करुणानिधे ! मातः ! ॥ १॥
जननि ! यदि त्वमुपेक्षामस्मद्वीक्षाकृते समाश्रयसे ।
आदिश कुमुदविकाशे धन्या चन्द्रद्युतेः कान्या ॥ २॥
साधुर्वाऽसाधुर्वा यौष्माकत्वेन विश्रुतो जगति ।
मातरुपेक्षायोगे कथय कथं जीवनं घटते ॥ ३॥
इदमर्थये त्ववश्यं कर्मकला-प्रसरबाध्यमानोऽपि ।
जन्मनि जन्मनि भवतीं, न विस्मरामि स्मराम्येव ॥ ४॥
प्रतिफलतु चित्तफलके भवती भवतीव्र-वासना-शमनी ।
शमन-प्रशमन-सरणी शरणीभूता प्रपञ्चस्य ॥ ५॥
उद्धृत-मानस-शल्यां , स्फूर्जत्कल्याण-कल्पना-कल्याम् ।
भक्ताय साधुवल्लीं कलये ललितां स्फुरन्माल्याम् ॥ ६॥
कमले भास्करभामिव कुमुदे चान्द्रीमिवामलां भासम् ।
भवने दीपशिखामिव, चेतसि भान्तीं समीहे त्वाम् ॥ ७॥
बन्धूक-बन्धुराङ्गी , विमल-सत्कारुण्य-सुन्दरापाङ्गी ।
भास्वद्भूषण-भङ्गी, मानस-सङ्गीकृते भूयात् ॥ ८॥
याविग्रहापि सर्वत्र पञ्चायतन-विग्रहा ।
यजतां स्मरतां सास्तु , भोगस्वर्गापवर्गदा ॥ ९॥
इत्यार्याभ्यर्चना समाप्ता ॥
Encoded by Lalitha Mallikarjunan
Proofread by Lalitha Mallikarjunan, Rajani Arjun Shankar