श्री आर्याष्टकम्
करस्थकदलीचूतपनसेष्टकमोदकम् ।
बालसूर्यप्रतीकाशं वन्दे बालगणाधिपम् ॥ १॥
आर्यां कात्यायनीं देवीमभीष्टफलदायिनीम् ।
देहि विद्यां महादेवि नमामि त्वां महेश्वरीम् ॥ २॥
महादेवप्रियां कालीं महायोगेश्वरेश्वरीम् ।
महालक्ष्मीं शिवां गौरीं देहि विद्यां महेश्वरि ॥ ३॥
उमां हैमवतीं शुभ्रां कोमलाङ्गी शुभप्रियाम् ।
नमामि शुभ्रवक्त्रां त्वां देहि विद्यां शिवप्रिये ॥ ४॥
पद्महस्तां सहस्राक्षीं सहस्रानललोचनाम् ।
नौमि दुर्गा भगवतीं देहि विद्यां सुरेश्वरि ॥ ५॥
पद्ममन्दिरमध्यस्थां योगिवृन्दैर्निषेविताम् ।
नौमि विश्वमयीं वाणीं देहि विद्यां सुलोचने ॥ ६॥
लक्ष्मीं क्षमां शिवां धात्रीं कल्याणगुणवर्धनीम् ।
वन्दे त्वां प्रणतार्तिघ्नीं देहि विद्यां सुरेश्वरि ॥ ७॥
विधिरूपां हंसवाहां ब्रह्मध्यानपरायणाम् ।
वरदाभयकरां विद्यां देहि (त्वं) परमेश्वरि ॥ ८॥
चारुप्रसन्नमदनां चन्द्रशेखरवल्लभाम् ।
विद्यां देहि महामाये वन्दे त्वां वृषवाहिनीम् ॥ ९॥
आर्याष्टकमिदं पुण्यं यः पठेत् सततं नरः ।
महादेवीप्रसादेन षण्मासात स कविर्भवेत् ॥ १०॥
इति श्री आर्याष्टकं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan