आनन्दवल्लीस्तुतिः
शिवाभ्यां नमः ।
विश्वमिन्दुधरसुन्दरि कर्तुं भर्तुमेतदपहर्तुमपि त्वम् ।
ईशिषे ननु दयस्व जनन्यानन्दवल्लि नतकल्पकवल्लि ॥ १॥
त्वत्पदाब्जशरणा विधिमुख्या विश्रुतास्तव निदेशत एव ।
वाति वायुरपि वासरनेतोदेति भाति शुचिरेष उदर्चिः ॥ २॥
यन्मतङ्गजतुरङ्गशताङ्गश्रेणितुङ्गविभवा भुवि केऽपि ।
ईशते हरिमुखा हरितां यत् तत्त्वदीयकरुणापरमाणोः ॥ ३॥
सम्पदः पदनते तनुते ते देवि कापि कणिका करुणायाः ।
याश्चिरादपि गुरोर्ग्रहणीया देवभर्तुरपि याः स्पृहणीयाः ॥ ४॥
उद्यदम्बुरुहिणीविट बिम्ब श्रीसखं जननि मञ्जुवपुस्ते ।
यस्स्मरत्यनुसरन्ति नरं तं मन्मथार्तिविधुरा मदिराक्ष्यः ॥ ५॥
पुस्तकाक्षवलयाद्यभिरामां त्वां भजन् भवति देवि भवानि ।
ऊर्मिलामृतझरीपरिवाहस्फारगीरमलसम्पदरीणः ॥ ६॥
चापबाणसृणिपाशधुरीणां त्वां भजन् नवकुसुम्भमयूखाम् ।
एधते भुवि पयोधिपरीत-क्ष्मापतिस्सति दयस्व नमस्ते ॥ ७॥
इति श्रीश्रीधरवेङ्कटशार्यविरचिता आनन्दवल्लीस्तुतिः समाप्ता ।
Proofread by Aruna Narayanan