आदिविद्यामहेश्वरीस्तुतिः
विष्णुरुवाचः
जय मातर्जगद्वन्द्ये जयं विश्वेश्वरप्रिये ॥ १५९॥
जय कल्याणदे भव्ये जय सौभाग्यसंश्रये ।
जय कल्याणनिलये जय वेदान्तसंस्तुते ॥ १६०॥
जय पुण्यैकनिलये जय कारुण्यसंश्रये ।
जय वेदान्तसंवेद्ये जय नित्ये निरञ्जने ॥ १६१॥
जय विद्यैकनिलये जयापर्णे जयामले ।
जय मञ्जुलमन्दारपुष्पमालाविराजिते ॥ १६२॥
जय नीलोत्पलानीललसन्नयनभासुरे ।
जय सर्वकलापूर्णचन्द्रबिम्बनिभानने ॥ १६३॥
जय विद्रमबिम्बाभभव्याधरविराजिते ।
जय दाडिमबीजाभदन्तराजिविराजिते ॥ १६४॥
जय शार्ङ्गनिभानीलभ्रूवल्लीसमलङ्कृते ।
जय भृङ्गावलीतुल्यकेशपाशविराजिते ॥ १६५॥
जय सिन्दूरसम्बन्धसीमन्तललितालके ।
जय सन्नीरसम्बद्धघुसृणारुणभालके ॥ १६६॥
जय कम्बुसमानाभकण्ठमण्डलशोभिते ।
जय हेममृणालाभबाहुवल्लीविराजिते ॥ १६७॥
जय कोकनिभारक्तहस्तपद्मविराजिते ।
जय कारुण्यपीयूषपूर्णवक्षोजशोभिते ॥ १६८॥
जय कामजयोत्पन्नरोमराजिविराजिते ।
जय त्रिवलिसम्बद्ध मनोहरकृशोदरे ॥ १६९॥
जय सिन्दूरकदलीसन्निभोरुमनोहरे ।
जय देवर्षिगन्धर्वप्रणमत्पदपङ्कजे ॥ १७०॥
जयानवद्ये निर्द्वन्द्वे निर्मले लयवर्जिते ।
जय विद्ये महाविद्ये जयानन्दे जयोत्तमे ॥ १७१॥
जय लीलाविलासार्थस्वीकृतानन्तविग्रहे ।
जय मौनिमनोरम्यसिह्मासनवराश्रये ॥ १७२॥
जय रत्नोच्चनिलयरत्नावलिविराजिते ।
जय दिव्यमणिभ्राजद्धेमाभरणभूषिते ॥ १७३॥
जय मातर्महादेवि जय मातर्महेश्वरि ।
जय मातस्त्रिणयने जय मातः सुरेश्वरि ॥ १७४॥
जय मातः प्रसीद त्वं जय मातः शिवप्रिये ।
जय मातः कृपापूर्णे जय मातः परात्परे ॥ १७५॥
॥ इति शिवरहस्यान्तर्गते आदिविद्यामहेश्वरीस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । १५९।२-१७५॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 159.2-175 ..
Notes:
Viṣṇu विष्णु eulogizes Maheśvarī महेश्वरी (Pārvatī पार्वती / Umā उमा) as ĀdiVidyā आदिविद्या.
Encoded and proofread by Ruma Dewan