यतीन्द्रपञ्चकम्
विरामोऽसत्यानां सुभगविधिकामो निशिदिनं
पराधारो ब्रह्मश्रवणमननाध्यानविधिषु ।
अहोरात्रं लोकोद्धृतिकृतिकृते श्रावणपटुः
न कुत्रेतो जाने स इत इति जाने विलपनम् ॥ १॥
सदा तुष्टो विद्वज्जनगण इहामुष्य सुकृतैः
पुरः केषामेषां शममुपगता नाद्यविततिः ।
स्वयं ब्रह्मानन्दह्रद-हृतवितापोऽपि जनता-
कृतेऽकस्मात् कस्मान् निधनकृततापं वितनुते ॥ २॥
किमालापैरेभिः सततरतसंसारमनसां
क्व वा हानिस्तस्य प्रधनपरमानन्दमवतः ।
परं नूनं लोके त्रितयविधिजातं परिगतं
(Note) श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति विधित्रयम्)
निराधारत्वं, कं तमनु सुजनं स्वाश्रयतु तत् ॥ ३॥
नूनं यतीन्द्र! भवता भवतान्यदेशे
काशीं विहाय सुदिनञ्च महेश्वरीयाम् ।
मुक्तेन सूचिततरं नहि काशिकाया-
मावश्यकी मृतिरपि त्ववबोध एव ॥ ४॥
हा ! मण्डलीश ! यतिवर्य ! न पूरणीयं
पूर्येत रिक्तमिदमद्य पदं कुतो नु ।
प्राप्तोऽपि मुक्तपदवीं कमपीत्थमेव
योग्यं नियोजयतु योगिवरं यतीन्द्रम् ॥ ५॥
इति पण्डित केदारनाथ त्रिपाठीविरचितं यतीन्द्रपञ्चकं सम्पूर्णम् ।
Pt. kedAranAtha tripAThI nyAyashAstrI kAshIsthaH
Encoded and proofread by Rishbha Bhagi