स्वामिविवेकानन्दोपदेशद्विशतिः
अवतारः
स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे ।
अवतारवरिष्ठाय रामकृष्णाय ते नमः ॥ १॥
रामकृष्णावतारे तु स्थितं सर्वमनन्तकम् ।
अनन्तप्रेम, भक्तिश्चानन्ता,ज्ञानमनन्तकम् ॥ २॥
सहस्रयुगपर्यन्तं यल्लब्धं विश्वहिन्दुभिः ।
रामकृष्णेन तल्लब्धमेकस्मिन्नेव जन्मनि ॥ ३॥
सर्वजातीयवेदानां रामकृष्णस्य जीवनम् ।
विद्यते भाष्यरूपं तद्वेदार्थानां प्रकाशने ॥ ४॥
कस्यापि देशस्य गतेतिहासे
न तादृशो धर्मसमन्वयोऽस्ति ।
प्रत्यक्षमीशः खलु रामकृष्णो
लघुर्मतोऽस्य त्ववतारवादः ॥ ५॥
यस्मिन्दिनेऽसौ नरजन्म लेभे
तस्माद्दिनात्सत्ययुगं प्रवृत्तम् ।
भेदा विवादास्त्वखिला विनष्टाः
अस्पृश्यवर्गः प्रियतामुपेतः ॥ ६॥
लुप्तो हिन्दुख्रिस्तमोहम्मदीय-
बौद्धादीनां भेदभावः समन्तात् ।
एको वर्णो वेद एकोऽधुनास्ते
शान्तिस्थानं नूतनं भारतं नः ॥ ७॥
``भक्तिज्ञाने कर्मयोगौ समेत्या-
भेदः सम्पद्येत सद्भावनानाम् ।
जायेतैवं नः समाजो नवीनः''
प्रेष्ठः श्रेष्ठश्चावतारोपदेशः ॥ ८॥
``विश्वासोऽस्तु'' गुरोर्वाचि निश्चिता भारतोन्नतिः ।
कर्तव्याः सुखिनः सर्वे निःस्वाः साधारणा जनाः ॥ ९॥
देशभक्तिः
उमानाथस्तवोपास्यः सर्वत्यागी च शङ्करः ।
धनजीवनसौख्यानि न सन्त्यात्मसुखाय ते ॥ १०॥
बलिस्वरूपो जनितोऽसि मातु-
श्छाया विराजस्तव यः समाजः ।
विपन्नचण्डाल दरिद्रमूर्खा-
स्त्वद्रक्तमांसान्वितबान्धवास्ते ॥ ११॥
उच्चैर्वचो ब्रूहि सधैर्यगर्वो
``भ्राता मदीयः खलु भारतीयः ।
स ब्राह्मणो वास्त्वथवातिशूद्रः
स निर्धनो वास्तु निरक्षरो वा ॥ १२॥
ममेश्वरो भारतदेवदेव्यो
मातुः शुभं यत्कुशलं मदीयम् ।
दत्त्वा बलं मे बलिनी पुनस्त्वं
मां मातरित्थं पुरुषं विधेहि ॥ १३॥
ग्रस्यते मृत्युना जन्तुरेकवारं स्वजीवने ।
मातुरुन्नतये तस्मात्साहसं कुरु साहसम् ॥ १४॥
द्यौरुत्तमा भारतभूर्ममेयं
दोलास्वरूपा मम बाल्यकाले ।
यूनस्तथा सुन्दरनन्दनं च
वाराणसीयं मम वृद्धभावे ॥ १५॥
तूष्णीं रहः सिक्ततुषारसम्पत्
सम्पर्कतः पाटल-कुङ्मलानाम् ।
विकासवत् विश्वचारधारां,
प्रभाविता भारतभाववृन्दैः। ॥ १६॥
आप्लाव्यते विश्वमदम्यशक्त्या
विना निनादं खलु भारतेन ।
ध्रुवं नवीनं युगमाविरास्ते
न ज्ञायते तु प्रभवः कुतस्त्यः ॥ १७॥
नाशोन्मुखं नः किमु भारतं स्या-
दहो तदाध्यात्मिकताविनाशः ।
गता ध्रुवं धर्मसहानुभूति-
र्मृता सदाचारवार्ता ! ॥ १८॥
विनाशितादर्शजगत्प्रभावता
प्रतिष्ठिता चाशु विलासिता भवेत् ।
प्रतारणा पाशविकं बलं विधि-।
र्धनं पुरोधा बलिरस्मदात्मन ! ॥ १९॥
न भारतं रुद्धसमुन्नति स्या-
न्न चैति निद्रावशतामिदानीम् ।
शक्तिः पुनः कालमिमं विजेतुं।
सन्त्यक्तनिद्रः खलु कुम्भकर्णः ॥ २०॥
ऊर्जस्विकालायसनिर्मिताभि-
र्वज्रं वपुः स्नायुशिराभिरस्तु ।
सेवार्थमस्मत्प्रियमातृभूमे-
रीहा बलं चास्तु यद्वितीयम् ॥ २१॥
अनेन सद्यत्नपरा भवेम
प्राप्तुं वयं विश्वरहस्यबोधम् ।
उदन्वदन्तस्तलमभ्युपेम
प्राणव्ययेनाप्युदयार्थसिद्ध्यै ॥ २२॥
कालोऽयं कठिनश्रमस्य भवतो भ्रातर्वचः श्रूयता-
मुत्थाय द्रुतमारभस्व समये मन्येऽतिनिद्रा तव ।
माता प्राप्तनिजासना बलवती तन्द्राभिभूता मनाक्
तस्या आयतिरुज्ज्वला परमसौ युष्मत्प्रयत्नाश्रया ॥ २३॥
भविष्यन्महद्भारतं कर्तुमीहा
यदि स्यादुपायत्रयं संविधेयम् ।
अदम्यं बल निर्मितिः सङ्घशक्ते-
र्विकीर्णा समीहा तथैकत्वसूत्रा ॥ २४॥
आयान्तु मित्राणि भवन्तु वीरा
बहिर्विनिर्गत्य निजान्धकूपात् ।
विधाय दृष्टिं परितो विशालां
पश्यन्तु राष्ट्राणि कथं प्रयान्ति ॥ २५॥
प्रेमास्ति चेन्मानवजातिमात्रे
स्वजन्मभूमौ च तथा त्वदीयम् ।
आयाहि गन्तुं पुरतो न पश्चाद्
यतामहे सत्तमलक्ष्यसिद्ध्यै ॥ २६॥
तुदन्तु सुहृदः सर्वे रुदन्तु तव बान्धवाः ।
श्रेयसी न गतिः पश्चान्नित्यमग्रगतिर्भवेः ॥ २७॥
उपेक्ष्यते यज्जनताजनार्दनो
महत्तदंहः क्रियते निरन्तरम् ।
ध्रुवं हि तन्नः पतनस्य कारणं
न विस्मरातो जनतासमुन्नतिम् ॥ २८॥
निष्फला राजनीतिः स्यात्समुदायकृतेन या ।
तत्तच्छिक्षान्नवासानामुपायान् परिचिन्तयेत् ॥ २९॥
न तादृशे विश्वसिमीश्वरेऽहं
यो मह्यमन्नं न ददाति भूमौ ।
प्रयोजनं स्वर्गसुखेन किं मे
शिक्षान्नशून्या यदि भारतीयाः ॥ ३०॥
ईर्षां द्वेषं परित्यज्य सहान्यैर्भव सोद्यमः ।
स्वदेशबन्धुवर्गार्थमिदमावश्यकं परम् ॥ ३१॥
उत्थाय धारय धुरं त्वरितं जगत्यां
जानासि जीवितमिदं क्षणभङ्गुरं ते ।
जातोऽसि यत्किमपि लक्ष्म त्यज स्वकीयं
जाताः स्थिताः कति न वा पशवो म्रियन्ते ॥ ३२॥
भयं पुत्र! परित्यज्यानिशमग्रेसरो भवेः ।
निर्भीका एव शोभन्ते नराः केसरिणो यथा ॥ ३३॥
विमुक्त्यै देशस्य प्रयतनपरोऽथास्य जगतो
भव, त्वय्येवास्ते शृणु सकलसेवाभरधृतिः ।
उदेत्वन्तर्ज्योतिः सततमधिजीवात्मनिहितं
रुचिर्वेदान्तस्य प्रतिगृहमिदानीं प्रविशतु ॥ ३४॥
आदौ समाल्पावितमस्तु भावै-
राध्यात्मिकैररुन्नतभारतं नः ।
ततोऽनु सामाजिक राजकीय-
विचारधाराभिरुदेतु कार्यम् ॥ ३५॥
आजीवनं भवत कार्यपरा, भवत्सु
स्थित्वाद्य मृत्युमनु चापि भवेन्ममात्मा ।
आयाति याति ननु पार्थिवजीवनं नो
नित्यानि किं विभवमानयशःसुखानि ? ॥ ३६॥
द्वावेव भवदादर्शौ सेवा त्यागस्तथा तयोः ।
चेद् भारतेन तादात्म्यं शेषं सम्पत्स्यते स्वयम् ॥ ३७॥
अभिलषसि यदि त्वं भारत! स्वां समृद्धिं
विकिर जगति सर्वं रत्नजातं स्वकीयम् ।
अपरजनपदेभ्यः प्राप्तुमिच्छेर्यदुच्चं
ग्रहणमथ च दानं लौकिको धर्ममार्गः ॥ ३८॥
प्रत्यग्गतौ यदभवन्मम हार्दपात्रं
तीर्थं पवित्रमधुना मम भारतं तत् ।
प्रत्यागतोऽत्रजरजः शिरसा वहामि
पुण्यो वहन्निह विभाति कथं समीरः ॥ ३९॥
विश्वासो बलं च
अनन्तं बलमेव स्यात्परो धर्मः परेश्वरः ।
दौर्बल्यं परिहर्तव्यं दास्येन च सहात्मनः ॥ ४०॥
बलं जीवनं दुर्बलत्वं च मृत्यु-
र्बलं शाश्वतं स्यादलं सिद्धिबीजम् ।
बलं सौख्यकृद् दुर्बलत्वं च दुःखं
बलान्यर्जयध्वं बलान्यजयध्वम् ॥ ४१॥
``बद्वोऽस्मि मूर्खोऽस्मि च दुर्बलोऽस्मि''
त्वयोच्यते चेत्तव दुर्भगत्वम् ।
दौर्बल्यचिन्ता न सखे विधेया
प्रत्यात्मसंस्थं बलमाविरस्तु ॥ ४२॥
बलं परं जीवनमार्गदर्शकं
क्रियाप्रधाने जगतीह सर्वशः ।
परित्यजेर्दुर्बलतानुसारतां
समुद्यमे सा प्रतिबन्धिका यतः ॥ ४३॥
श्रद्धत्त यूयं मम वीरमित्रा-
ण्यत्रागता उन्नतकार्यहेतोः ।
क्षुद्रश्वशब्दादथवापि वज्रा-
दभीरवः कर्म निजं कुरुध्वम् ॥ ४४॥
तेजस्विनो जना अद्धा श्रद्धावन्तो बलान्विताः ।
निर्मलान्ता अपेक्ष्यन्ते पुरुषास्तु सपौरुषाः ॥ ४५॥
सर्वेऽपि दोषाः प्रभवन्त्यशक्ते-
रशक्तिरंहःकरणेऽपि शक्ता ।
स्वार्थस्य मूलप्रभवोऽप्यशक्ति-
स्तयैव लोकाः कलहे प्रवृत्ताः ॥ ४६॥
भ्रातर्वृथायं भवदश्रुपात-
स्त्वय्येव नास्ते निहितं बलं किम ? ।
स्वां चेद्विजानासि बलिष्ठ! शक्तिम् ।
सर्वं जगत्त्वत्पदलग्नमेव ॥ ४७॥
सप्रेमभावैः सबलैर्मनुष्यैः
सत्यानुरागैरधुनास्ति कार्यम् ।
प्रतारकैः किं क्रियते सुकार्यं
तस्मात्सखे दर्शय पौरुषं ते ॥ ४८॥
शैत्यं क्षुधा पार्थिवजीवनं च
न किञ्चिदीशो बलनायको नः ।
अदम्यविश्वाससहानुभूती
आस्तां पुरस्तादनिशं पुरस्तात् ॥ ४९॥
कदापि पश्चान्न विलोकनीयं
चिन्त्यं न ``कर्तव्यपथे पतेत्कः'' ।
नित्यं वयं भोः पुरतो व्रजामः
कश्चित्पतत्यन्यतरोऽभ्युपैति ॥ ५०॥
असीमधैर्यं च समुद्यमश्च
महांश्च कार्यक्षमता गुणोऽपि ।
आज्ञाकरत्वं मिलितानि सन्ति
व्यक्तेश्च राष्ट्र्स्य यशस्कराणि ॥ ५१॥
अपेक्ष्यते व्यक्तिबलिष्ठतादौ
श्रद्धाथ लक्ष्यं प्रति तत्परत्वम् ।
एतत्समग्रं त्वयि विद्यते चे-
त्कश्च्यावयेत्त्वां निजकार्यमार्गात् ॥ ५२॥
त्यागः दानशीलता च
श्रूयतां निश्चिते मृत्यावादर्शोऽस्तु महांस्तव ।
वरं मृत्युमुखे वासो महादर्शस्य पालने ॥ ५३॥
विकिरतितरां कोऽस्मिंल्लोके प्रकाशपरम्परां ?
गतयुगगतो धर्मस्त्यागः पुनः समुदेष्यति ।
जगति सदयाः स्वात्मोत्सर्गप्रसक्तहृदो ध्रुवं
बहुजनहितश्रद्धा बुद्धाः शतं प्रभवन्तपि ॥ ५४॥
निस्वार्थः सर्वदा कर्मण्यधिकं फलमश्नुते ।
तथा त्वाचरणं कर्तुं नरा धैर्यं न कुर्वते ॥ ५५॥
आस्ते जीवनमेव भङ्गुरमिदं तुच्छोऽभिमानस्तथा
यत्सांसारिकभोगजातमखिलं नानाविलासान्वितम् ।
यो जीवेदपरार्थसाधनकृते तस्यैव जन्मोज्ज्वलं
प्राणन्तोऽपि मृतोपमाः खलु नरा ये स्वार्थिनः केवलम् ॥ ५६॥
कल्याणाय स्वराष्ट्रम्य सर्वस्य जगतस्तथा ।
स्वात्मोत्सर्गविधेरयन्महत्कार्यं न विद्यते ॥ ५७॥
हिन्दो स्वाभाविकी श्रद्धा जीवितं शाश्वतं तव ।
तदर्थं चिन्तितः कस्मात्कल्याणं जगतां वरम् ॥ ५८॥
कल्याणं जगतां विधातुमनिशं वाञ्छन्ति ये सज्जना-
रते सम्पत्सुखलाभमानयशसामीहां त्यजन्तु द्रुतम् ।
तेषां पोट्टलिकां विधाय सहसाऽगाधे क्षिपन्त्वम्बुधौ
कुर्वन्त्वीशपदाम्बुजं स्वशरणं वाक्यं सतामीदृशम् ॥ ५९॥
औदार्यं प्रियतापि जन्तुषु भवेन्मित्रेष्वमित्रेषु च
स्वान्तेऽनन्तसहानुभूतिरनिशं दुःखाभिभूते जने ।
सद्विद्याधनसम्पदन्वितनरेऽसूयानिवृत्तिस्ततथा
दोषाविष्करणाद्विरक्तिरपरस्यैतत्सतां लक्षणम् ॥ ६०॥
सेवा
प्रतिष्ठितश्चारुशरीरमन्दिरे
त्वयात्मदेवः सततं निषेव्यताम् ।
प्रभुर्न चेत्त्वं प्रभुमत्र सेवितुं
प्रयोजनं तेऽस्ति किमन्यमन्दिरैः ॥ ६१॥
नारीं नरं चाखिलजीवलोकं
सेवस्व नारायणभावतस्त्वम् ।
दयाप्रदाने ननु कोऽसि तेषां
सेवाप्रदानं चर धर्ममर्म ॥ ६२॥
शिवं सखे वन्दितुमीहसे चिरं
शिवात्मजानां क्रियतां समर्चनम् ।
सम्पूजयेद्यः परमेशपुत्रकान्
स एव साक्षाज्जगदीशपूजकः ॥ ६३॥
दुर्भिक्षदुःखगदपीडितलोकशोकं
हर्तुं प्रयात भुवने भुवनेशतुष्ट्यै ।
प्राणव्ययादपि जनाः सुखिनः क्रियन्तां
जाता हि पश्यत वृथा शतशो म्रियन्ते ॥ ६४॥
उच्चैः स्थितः करगुहीतपणो विनोदा-
न्मा ब्रूहि ``भिक्षुक गृहाण दयापरोऽहम् ।''
दाता भवत्युपकृतोऽत्र परं ग्रहीत्रा
सौभाग्यमेतदिह ते स्वसहायकर्तुः ॥ ६५॥
ईशः स्थितो दलितदुर्बलदुःखितेषु
येऽर्हन्ति सेवनमलं प्रियबान्धवास्ते ।
तान्मृगयसे कथमोशमन्यं
गङ्गातटे खनितुमिच्छति कोऽपि कूपम् ॥ ६६॥
यावज्जनाः सन्ति सहस्रशोऽन्ये
शिक्षाविहीनाश्च बुभुक्षिताश्च ।
अर्थे न तेषां यदि शिक्षिताः स्मो
तदा कृतघ्नात्खलु धिग्धिगस्मान् ॥ ६७॥
दुर्गतान्वीक्ष्य यत्स्वान्तं द्रवीभवति तत्क्षणात् ।
स महात्मा स्तुतेः पात्रं। निर्विकारस्त्वसज्जनः ॥ ६८॥
परोपकारः सत्कार्यं यद्यपि स्यात्सकारणः ।
शिवज्ञानाज्जीवसेवा कार्यं पुण्यतमं परम् ॥ ६९॥
न केवलं मूर्तिषु विद्यते शिवः
परं दरिद्रेषु च दुर्गतेषु च ।
शुभाकृतिर्निर्मल ! तत्कृते कृता
समर्चना सारमतोऽवधार्यताम् ॥ ७०॥
यावज्जीवसमष्टिकारणवशादेको महाकाशवत्
यावद्वर्गविभिन्नजातिषु ततो यो दीनहीनेषु च ।
यो दुष्टेषु च दुःखितेषु च पुनर्व्याप्तः समानोऽनिशं
तस्याराधनहेतुना जनिततौ कष्टं समीहे महत् ॥ ७१॥
प्रेम तथा निःस्वार्थता
मयानुभूतं निजजीवनेऽस्मि-
न्निर्व्याजमन्तःकरणं नराणाम् ।
सद्भावना शाश्वतिकं च हार्दं
जेतुं जगत्सर्वमलं त्रयं स्यात् ॥ ७२॥
एकोऽपि युक्तस्त्रिगुणैरमीभिः
सहस्रशोऽपि च्छलनापराणाम् ।
नृणां पशूनामपवित्रमर्थं
भवे भवेन्नाशयितुं समर्थः ॥ ७३॥
अस्मदाशावलम्बोऽस्ति हीनदीनजनाः परः ।
एत एव नितान्तं हि यान्ति विश्वासपात्रताम् ॥ ७४॥
विश्वासस्त्वीश्वरे कार्यी न च्छलेन प्रयोजनम् ।
परदुदुःखैर्दुःखितानां भवेदीशः सहायकृत् ॥ ७५॥
भव्यो निःस्वार्थभावोऽत्र सदाचारो विभाव्यते ।
परं स्वार्थपरत्वं च दुराचारो विचार्यते ॥ ७६॥
वसुना यशसा च विद्यया
प्रियतायाः सफलत्वमाप्यते ।
चरितेन सता विदार्यते-
ऽदमनीया ननु भित्तिरापदाम् ॥ ७७॥
साफल्यस्य रहस्यं स्यादहम्भावान्निवर्तनम् ।
तेन सिद्ध्यन्ति कार्याणि प्रभावोऽपि महान्भवेत् ॥ ७८॥
विस्तारो जीवनं प्रोक्तं सङ्कोचो मृत्युरेव च ।
स्नेह एवास्ति विस्तारः स्वार्थः सङ्कोच उच्यते ॥ ७९॥
प्रेमैव नो जीवनधर्म एको
यः स्निह्यति प्राणिति स प्रकाशम् ।
यः स्वार्थसक्तः स मृतोऽस्ति जीवनं
स्नेहेन मृत्युश्चिरजीवितत्वम् ॥ ८०॥
धार्यते यद्वदस्माभि। श्वासोच्छ्वासेन जीवितम् ।
तथैवाहेतुकं प्रेम भवेज्जीवनकारणम् ॥ ८१॥
चरित्रहीनत्वमवाप्य लोका
धर्मं गतप्राणमकार्पुरद्य
अपार्थहार्दं चरितं त्वपेक्ष्यं
सौहार्दभावः कुलिशप्रभावः ॥ ८२॥
पवित्रता चेतसि धैर्यमग्र्यं
तथा स्वधर्माध्यवसायता च ।
गुणत्रयं स्यात्सफलत्वहेतु-
स्तथापि सर्वोपरि हार्दभावः ॥ ८३॥
शिक्षा
मानवान्तःस्थितायास्तु पूर्णताया विकासिता ।
सच्छिक्षा प्रोच्यते सद्भिर्नो चेच्छिक्षा निरर्थिका ॥ ८४॥
या स्वावलम्बं न ददाति शिक्षा
``शिक्षाभिधानं'' कथमाप्नुयात्सा ।
विद्यार्थिनः पाठगृहेष्वजीर्ण-
रुजाधुनाक्रान्ततया विशीर्णाः ॥ ८५॥
साधारणेष्वथ पुनर्वनितासमाजे
शिक्षासमः किमपरोऽस्ति परोपकारः ।
विद्याबलं प्रसृतमत्र यदा प्रतीच्यां
लोकोन्नतिः समभवत्परितस्तदानीम् ॥ ८६॥
मस्तिष्कं परिपूरितं यदि भवेदावेदनाराशिभिः
सम्बोधानुभवौ विना परिणमेत्तत्केवलं सङ्करे ।
साङ्कर्येण भवेदशक्तिरनिशं नाशोन्मुखी, त्वं ततः
शिक्षामाश्रय सच्चरित्रनरताधीपाकविद्याकरीम् ॥ ८७॥
स्त्रीशिक्षा
न स्यात्स्त्रीणां सुधारेण विना संसारमङ्गलम् ।
एकपक्षाः पक्षिणः किमुड्डयन्ते विहायसि ॥ ८८॥
स्वोपज्ञमार्गैर्महिलाः स्वकीयाः
कुर्वन्तु सर्वाः सरलाः समस्याः ।
नान्यस्तदर्थं यततां स्त्रियः किं
न भारतीयाः सुतरां समर्थाः ॥ ८९॥
स्यादाद्यशक्तेर्जगतो जनन्या
विनोन्नतिं नोन्नतिरद्य नॄणाम् ।
इत्येव हेतोः किल रामकृष्णै-
र्गुरुकृता स्त्री परिपूजिता च ॥ ९०॥
सावित्री दमयन्ती च सीता च जनकात्मजा ।
आदर्शभूतास्ताः सन्ति शृणु भारत! भारतोम् ॥ ९१॥
यस्मिन्समाजे किल भारतीये
जगत्यसामान्यगुणान्वितायाः। ।
जाता जनिः सा जनकात्मजाया
जानाति कर्तुं ललनादरं सा ॥ ९२॥
आसीत् स्त्रीणां ज्ञानलाभाधिकारः
पूर्वं कस्मादद्य ता वञ्चिताः स्युः ।
यद्वत्त्यक्ता ब्राह्मणैरन्यवर्णा-
स्तद्वन्नार्यश्छिन्नसर्वाधिकाराः ॥ ९३॥
पूर्वं चासीदग्निहोत्रादिकार्ये
साकं पत्या स्थित्यपेक्षा वधूनाम् ।
अद्यत्वे ता हन्त नार्हन्ति गेहे
शालिग्रामस्पर्शमात्रं विधातुम् ॥ ९४॥
कुत्रापि शास्त्रे विहितं किमस्ति
``स्त्री ज्ञानभक्त्योरधिकारशून्या'' ।
सीता पदाङ्कानुकृतिः परं तत्
समुन्नतेरद्य विशेषमार्गः ॥ ९५॥
निन्दन्ति नारीरनिशं नरा ये
तासां कृते विहितं किमस्ति ?
क्षिप्ताः परं ताः स्मृतिकारबालैः
``स्वातन्त्र्यहीना'' ``नरकस्य पन्थाः'' ॥ ९६॥
यदि स्युर्घृणिताः कीटा इव नार्यस्ततः कथम् ।
मनुनोक्तं यत्र नार्यः पूज्यन्ते तत्र देवताः ॥ ९७॥
पाश्चात्त्यकृत्यनुकृतिर्यदि भारतस्य
नारीजनेन विहिता त्यजता स्वलक्ष्यम् ।
ताभिः सहैव भविताऽवनतिर्नराणां
सर्वो भविष्यति पुनर्विफलः प्रयत्नः ॥ ९८॥
धर्मः
न कोऽपि धर्मो ``नरदिव्यभावं''
यथोच्चकैर्गायति हिन्दुधर्मः ।
स एव चित्रं बत! दुर्बलेषु
पादप्रहार कुरुते नितान्तम् ॥ ९९॥
आदर्शेऽस्मिञ्जीवने मानवानां
शिक्षा भक्तिज्ञानयोगत्रयस्य ।
धर्माणां सल्लक्ष्यमेतत्समेषां
वेदान्तस्तत्सिद्धये स्यात्समर्थः ॥ १००॥
स्पर्शास्पर्शौ नास्ति हिन्दुत्वचिह्नं
संस्कारोऽयं केवलं निन्दनीयः ।
दृष्टं नाम क्वापि शास्त्रप्रमाणं
सामाजिक्यास्तून्नतेर्विघ्न एषः ॥ १०१॥
न धर्मदोषोऽस्त्यथवात्र कोऽपि
पाखण्डिनो यच्छलनापराश्च ।
परार्थनाम्ना विविधैरुपायैः
प्रतारयन्ति च्छलशून्यचित्तान् ॥ १०२॥
पुराणधर्मात्तु पुरोहितानां
त्यागाद्भवेदुत्तमहिन्दुधर्मः ।
तेनाथ पाश्चात्यसमाजवर्गः
प्रभावितः स्यादिति निश्चयो मे ॥ १०३॥
धर्मं विनास्माकसमाजवर्गो
भवेदरण्यं पशुभिर्विकीर्णम् ।
भोगा विलासा न मनुष्यधर्मो
ज्ञानं परं जीवनसाध्यमुच्चैः ॥ १०४॥
धर्मस्त्वलौकिकोपायः पशुर्येन नरायते ।
नराश्चापीश्वरायन्ते विना धर्मं नरः पशुः ॥ १०५॥
प्रत्यक्षं शाश्वतं यत्प्रकटयति पुनर्जीवनं मानवानां
ज्ञानादज्ञानसान्द्रं पशुमपि मनुजं द्राक्करोति प्रभावात् ।
तं साक्षादीश्वरेऽयं विपरिणमयति स्वेन्द्रजालादिवान्ते
धर्मः किं किं न कुर्याज्जगदुपकृतये कल्पवृक्षेण तुल्यः ॥ १०६॥
सर्वगं परमं तत्त्वं नासि चेद् द्रष्टुमीश्वरः ।
अध्यात्मज्ञानसूर्यस्य नोदयस्तव मन्दिरे ॥ १०७॥
त्वयीश्वरो यः सकलेऽपि विद्यते
न बुध्यते चेदियमज्ञता तव ।
समग्रमेकं यदि भिन्नता कुतः
परं हितत्वं प्रति जीवमन्दिरम् ॥ १०८॥
``ईश्वरः खलु जगत्पिता'' स्वयं
प्रार्थनासु भवतेदमुच्यते ।
प्रत्यहं व्यवहृतौ परं परं
मन्यसे न किमिति स्वबान्धवम् ॥ १०९॥
त्वमंशभूतोऽस्यविनाशिवस्तुनः
समष्टिरेषाप्यविनाशिनी मता ।
अतः स्वकीयां प्रकृतिं विभावयन्
समष्टिसेवामिह कर्तुमर्हसि ॥ ११०॥
मानवे मानवे मान्या दिव्यता यादितः स्थिता ।
प्रकटीकरणं तस्या धर्म इत्युच्यते बुधैः ॥ १११॥
नोच्चैर्वादा नापि सिद्धान्तधारा
नाप्यस्माकं चारुनानामतानि ।
धर्मः, किन्तु स्वानुभूतेरवाप्तिः
किं चैतस्याः कार्यजाते प्रकाशः ॥ ११२॥
मूर्तिर्ग्रन्था मन्दिरे प्रार्थनायाः
सिद्धिप्राप्त्यै केवलं सन्त्युपायाः ।
साक्षात्कारः स्वात्मनो दिव्यताया
उच्चैर्ध्येयं या हि नित्यं पुरस्तात् ॥ ११३॥
यदा सन्तोषः स्यात्क्षणिकसुखतुच्छेन जगता
घृणा दृष्ट्वा लोके कपटपरिपूर्णा व्यवहृतिम् ।
यदा च द्वेषः स्यादनृतवचने नास्तिकजने
तदा धर्मापेक्षं भवति खलु सश्रद्धहृदयम् ॥ ११४॥
अवाप्य ज्ञानमीशस्य चिन्तनं तस्य नित्यशः ।
प्रत्यक्षं तेन सम्भाषा प्रोच्यते धर्मलक्षणम् ॥ ११५॥
स्नेहः सम्पूर्णसंसारे स्थितप्राणिषु निर्मलः ।
उदारता तथा तेषु धर्मस्य निकषः स्मृतः ॥ ११६॥
पावित्र्यं निर्मलत्वं सुकृतिततिरतिः सर्वभूतानुकम्पा
धर्मस्यैकस्य सम्पन्न खलु समभवन् किं च सर्वत्र सन्तः ।
``अन्ये लुप्यन्तु धर्मा मम भवतु पुनः सर्वधर्मप्रधानो''
यद्येवं कोऽपि वाञ्छत्यखिलजनदयापात्रमेतं धिगस्तु ॥ ११७॥
श्रूयतामधुना मित्र! धर्म-भेदो विनङ्क्ष्यति ।
सर्वधर्मपताकासु वञ्चनं लिखितं भवेत् ॥ ११८॥
``सहयोगो विरोधो न'' ``स्वीकृतिर्न विनाशनम्'' ।
``शान्तिः समन्वयश्चापि'' ``न कलिर्न मते भिदा'' ॥ ११९॥
मतानि शास्त्राणि च मन्दिराणि
क्रियाकलापाः समनुष्ठितिश्च ।
यदङ्गभूतानि स मुक्तिलाभो
धर्मस्य सर्वस्वमिदं ब्रुवन्ति ॥ १२०॥
धर्माश्रयं त्वं कलहं न कुर्या
अज्ञानमूलः कलहोऽनिशं स्यात् ।
असारतत्त्वाश्रयमेव नूनं
किं धार्मिकस्यास्ति कलेर्न बीजम् ॥ १२१॥
पावित्र्यमाध्यात्मिकता विधातुं
स्वं नीरसं दूरमितो यदैव ।
तदैव धर्मे कलहा भवन्ति
भवत्यशान्तिश्च जगत्यनन्ता ॥ १२२॥
न वैदिकास्तान्त्रिकाश्च न च वेदान्तिनो वयम् ।
पौराणिकास्तथा न स्मः केवलं ``स्पृश मा'' वयम् ॥ १२३॥
धर्मोऽस्माकं शिष्यते पाकगेहे
देवोऽस्माकं पाकपात्रस्वरूपः ! ।
ध्येयं चास्ते ``मा पवित्रं स्पृशेर्मा''-
मित्थं सर्वे स्वात्मनाशं व्रजामः ! ॥ १२४॥
धर्मोपदेशस्तु बुभुक्षितानां
वैधेयता स्यादथ वा प्रमादः ।
रिक्तोदराणां किमु धर्मभावः ?
क्षुत्पीडितांस्तोषय भोजनेन ॥ १२५॥
व्यष्टेर्यथा जीवनलक्ष्यमेकं
तथा समष्टेरपि निश्चितं स्यात् ।
अङ्गीकृतं भारतवासिभिर्य-
ल्लक्ष्यं पुरा तैर्न कृतः प्रमादः ॥ १२६॥
विविधम्
भारतमहिमा
प्राच्यां तु भारतादेव सर्वं प्राचीनकालतः ।
प्रससारात्र संसारे प्रीतिर्ज्ञानं तपः शिवम् ॥ १२७॥
धर्मस्यावासभूमिः प्रभवपदमिदं नित्यशो दर्शनानां
नानावीरैः सुधीरैरविरतमवनात्स्वस्तिकालादनादेः ।
विश्वप्रेमप्रकर्षः प्रकृतिमधुरिमा मार्दवं भावनाना-
मेभिर्लोकस्य कर्तुं प्रभवति सततं नेतृतां भारतं नः ॥ १२८॥
आघातप्रतिघातसङ्कटशतैरुद्यत्समाजप्रथा-
चाराणां ततिभिश्च सङ्कुलमभूदाक्रान्तमेत्यारिभिः ।
आस्ते प्राणबलान्वितं तदपि यत्तुङ्गाद्रिशृङ्गोपमं
मन्ये भारतजीवनं खलु जगत्याद्यन्तशून्यं ध्रुवम् ॥ १२९॥
न ज्ञातो ग्रीसदेशोऽभवदवनितले रोमवार्तापि नासीत्
यूरोपस्थाश्च लोका गहनवनगता दीर्घमासन्नसभ्याः ।
ध्वान्तच्छन्नेतिहासं जगदिदमखिलं, दुर्बला किंवदन्ती
तत्रासीदच्चशैलस्थिरतरवसतिः संस्कृतिर्भारतीया ॥ १३०॥
आदर्शानां जन्मभूर्विश्रतानां
सद्भावानामाकरो भारतं नः ।
अस्मादेवाध्यात्मिकज्ञानधारा-
पूरः पूर्वं प्रस्थितौऽभूज्जगत्याम् ॥ १३१॥
संसारे पुनरप्यस्मिन्पूरोऽयं प्रसरिष्यति ।
नवजीवनसञ्चारो ध्रुवं येन भविष्यति ॥ १३२॥
का पुण्यभूमिरुचिता जगतीतलेऽस्मिन्
किं स्थानमत्र परमीश्वरलाभसिद्ध्यै ? ।
नॄणां च कर्मफलभोगपदं किमास्ते ?
तत्रोत्तरं शृणुत भारतभूरियम् ॥ १३३॥
क्षेत्रं किमस्ति बलशीलदयागुणाना-
मन्तर्दृशोऽप्यजनि यत्र परो विकासः ।
जाता च यत्र परमात्मविचारचर्चा
तत्रोत्तरं शृणुत भारतभूरियं नः ॥ १३४॥
महामहिममण्डिता भवति भारती भूः पुरा
समुज्ज्वलतरा ध्रुवं स समयोऽचिरादेष्यति ।
गृहीतजनुषोऽत्र संश्रुतमहर्षयः पूर्ववत्
समग्रजगतो जनान् सुपथगान्विधास्यन्ति ते ॥ १३५॥
(बन्धुसेवा)
आनन्दिता भवत बान्धवसेवनार्थं
युष्माभिरेव मधुरोऽवसरोऽद्य लब्धः ।
आप्लावितं त येन जगत्समग्रं
वृद्धिं स याति खलु धर्मसमुद्रपूरः ॥ १३६॥
निःस्वान्नित्यं दुःखितानीशपुत्रान्
ये सेवन्ते पापिनस्तापिनश्च ।
तेषां जिह्वाग्रस्थिता भारती स्याद्
देवी चास्ते मानसे शक्तिरूपा ॥ १३७॥
परार्थं त्यक्तसर्वस्वो मुक्तस्तिष्ठति मानवः ।
इतो भ्रष्टस्ततो भ्रष्टो ``मुक्तिर्मे स्यादिति ब्रुवन्'' ॥ १३८॥
(धर्ममहत्ता)
धर्मः परो भारतपुण्यभूमौ
जातीयशक्तेरवलम्बरूपः ।
देशस्य नो जीवनगीतशास्त्रे
धर्मः प्रधानस्वरतामुपैति ॥ १३९॥
नार्हा वयं त्यक्तुमतः स्वधर्म-
मादर्शभूत-स्वबलं कदापि ।
असावधाना यदि तं त्यजेम
प्रतिक्रिया तस्य भवेददम्या ॥ १४०॥
(भारतस्य अवनतिः)
यस्मिन्दिने ``म्लेच्छ''पदं प्रसिद्धं
छिन्नं विजातीयजनैः सखित्वम् ।
तस्मिन्दिने भारतभाग्यसूर्यो-
ऽप्यस्ताचलं गन्तुमिव प्रवृत्तः ॥ १४१॥
(कर्म अकर्म च)
आत्मभावविकासस्य कारणं कर्मसंज्ञितम् ।
अनात्मभावो येन स्यात् तदकर्मेति संस्मृतम् ॥ १४२॥
सबलाः कार्यकर्तारो विश्वं जेतुमलं दश ।
सहस्रशोऽपि वैधेय न समर्था भवन्ति ते ॥ १४३॥
पशुनरत्वमाप्नोति सत्कर्मवशतः परम् ।
नरः पशुत्वं लभतेऽसत्कर्मवशतोऽवशः ॥ १४४॥
(स्त्री-महिमा)
जातान्यजातिषु जगत्यबलोन्नतिर्या
सा योषितां किल सुयोग्यपदस्य लाभात् ।
याधोगतिश्चिरमभूदिह भारतेऽस्मिन्
सा शक्तिरूपमहिलासु निरादरेण ॥ १४५॥
(मानवोन्नतिः)
समानाधिकारा जना जीवने स्युः
परं दुःखिता जन्मतो जातिभेदात् ।
अतः कर्मणो वर्ण इत्येव सत्यं
समाजोन्नतावस्ति धर्मोच्चतत्त्वम् ॥ १४६॥
अयि! कठोरतरं खलु जीवनं
तनुतरं क्षणजीवि च तत्फलम् ।
पिहितमस्ति तवाग्रमथाप्रभं
तदपि धीरतयाग्रसरो भवेः ॥ १४७॥
उत्तिष्ठ जागृहि द्राक्त्वं स्वप्रेनालं तवाधुना ।
स्वलक्ष्यप्राप्तिपर्यन्तमुद्यमं न परित्यजेः ॥ १४८॥
सहानुभूतेरथ कार्यशक्ते-
रभाव एवास्ति विपन्निदानम् ।
दोषं तमादौ परिहृत्य शीघ्रं
कुरुष्व कार्यक्षममात्मदेहम् ॥ १४९॥
असीमशक्तिर्निहिता शिवेन
व्यक्तौ, विजानाति नरः कथं ताम् ।
सर्वेऽपि तुल्यावसरं लभन्तां
बलीयसीतः परमेश्वरेच्छा ॥ १५०॥।
विजयः प्रकृतेरस्या मुख्यं लक्ष्यं नृजन्मनः ।
न जातो मनुजो जातु गन्तुं प्रकृतिदासताम् ॥ १५१॥
सश्रद्धकर्मठजनस्य ससीमबुद्ध्या
विज्ञानभौतिकविचारवशालतायाः ।
कर्तुं समन्वयमहं हृदयं समीहे
गम्भीरमब्धिरिव यच्च नभो विशालम् ॥ १५२॥
सुखं नराणां पुरतोऽभ्युपैति
प्रायो विपच्छेखरितोत्तमाङ्गम् ।
प्रयोजनं यस्य सुखेन तस्मा-
त्स तत्परः स्याद्विपदोऽनुगन्तम् ॥ १५३॥
कल्याणमध्यात्मसमाजनीति-
त्रयेऽवलम्बेत विशुद्धभावम् ।
सर्वेषु देशेष्वथ सर्वकाले-
ष्वभिन्नता स्मासु च बान्धवेषु ॥ १५४॥
(ज्ञानमहिमा)
गम्यमुच्चतमं तत्त्वं जीवनस्य श्रुतं स्मृतम् ।
तत्त्वमन्वेषय भ्रातः! ध्रुवं लाभो भविष्यति ॥ १५५॥
ज्ञानं परं प्रतिगृहं प्रविशेदितीत्थं
चक्रं प्रवर्तयितुमिच्छति मानसं मे ।
येन स्त्रियश्च पुरुषाश्च जगत्यमुष्मिन् ।
स्वात्मेषुनिर्णयविधिं परिभावयन्तु ॥ १५६॥
(सेवाभावः)
यथाहं भारतीयोऽस्मि तथा संसारसेवकः ।
सन्देहकल्पनाजालप्रसारोऽत्र निरर्थकः ॥ १५७॥
(सदाचारः)
आचारवान् भव सुहृद् बलवान्कृतान्त-
स्याह्वानतोऽपि गतभीरमलान्तरस्त्वम् ।
व्यर्थैव धार्मिकविवादपरम्पराऽऽस्ते
दुष्कर्मजातमिति कातरकार्यमेतत् ॥ १५८॥
(सत्यं उपकारश्च)
अपकारादुपकारोऽसत्यादपि चातिरिच्यते सत्यम् ।
अनन्तगुणमेतत्खलु यस्यास्ते तस्य जीवितं सफलम् ॥ १५९॥
(भारतोन्नतिः)
भारताभ्युदयोऽवश्यं भवितेशविधानतः ।
अरुणोदयवेलासावुत्थातव्यं गता निशा! ॥ १६०॥
(बलमहत्ता)
शुष्काद् गीतापाठात्पदकन्दुकखेलनं तु भद्रतरम् ।
शक्तेर्महत्यपेक्षा, गीतापठनं भवेत्ततः सफलम् ॥ १६१॥
(व्यक्तिमहत्ता)
भ्रातस्त्वमेहि बलवाननुभूय ``सोहं''
भस्मीभविष्यति मनोमलिनत्वमस्मात् ।
जागर्ति शक्तिरनिशं त्विह या प्रसुप्ता
त्वं च प्रचण्डदलमूर्तिरिव स्वयं स्याः ॥ १६२॥
(दलितवर्गः)
श्रमिका भारतस्यैते दलिताश्चिरकालतः
अपूर्वकार्यकर्तारोऽप्यहं तानभिवादये ॥ १६३॥
दरिद्राणां कुटीरेषु भारतं वसति ध्रुवम् ।
परमुन्नतये तेषामस्माभिर्वत किं कृतम् ? ॥ १६४॥
सांसारिकेषु विषयेतषु भवन्त्यसुज्ञा
निःस्वा जनास्तदपि दुर्जनताविहीनाः ।
ते सन्ति श्रद्धहृदयाश्छलशून्यभावा
हिंसाविचाररहिता हितकार्यसक्ताः ॥ १६५॥
निम्ना जना जेतृनिपीडनेन
त्रस्ताः स्वकीयैरवमानिताश्च ।
चिरात्स्वकार्यप्रसितास्तथापि
श्रमस्य नापुः फलमद्य यावत् ॥ १६६॥
(पुराणाभिमानः)
केचिद्वदन्त्यवनतेः किल कारणं नो
व्यर्थं ममत्वमतिपूर्वपरम्परासु ।
ज्ञातं भया परमिदं विपरीतमेव
त्यागः पुराणविभवस्य महान्प्रमादः ॥ १६७॥
(हनूमदादर्शः)
सर्वदास्तु तवादर्शो हनूमान्बलवान्सुधीः ।
जीवितं मरणं वास्तु स न दध्यौ जितेन्द्रियः ॥ १६८॥
(ज्ञानी भक्तश्च)
अगाधप्रेमहृदयोऽद्वैतानुभववान्स्वयम् ।
ज्ञानीश्वरेण तादात्म्यवांश्च भक्तो निगद्यते ॥ १६९॥
निन्दको ज्ञानिनो भक्तो ज्ञानी भक्तस्य निन्दकः ।
द्वावप्येतौ मतौ धूर्तौ न भेदो ज्ञानिभक्तयोः ॥ १७०॥
(ईश्वरः)
यदीश्वरस्य सत्तायां विश्वासो विद्यते तव ।
पदे पदे तत्स्मृतिः स्यात्स्मृतिरेवेशसेवन ॥ १७१॥
यदीश्वरः स्यान्नरदेहधारी
हानिर्भवेत्किं तदनन्तशक्तेः ?
चैतन्यरूपस्य शरीरलाभो
न बाधकः स्यात्तदनन्ततायाम् ॥ १७२॥
(भक्तिः)
भक्तिनिरन्तरमसौ मनुजान्तरस्था
या कामकाञ्चनपिधानवशाददृश्या ।
दूरीकुरु त्वमिदमावरणं क्षणेन
स्वान्तः स्थिताथ भवति स्वयमेव दृश्या ॥ १७३॥
(बन्धः)
सौवर्णो वाप्यायसो वास्तु बन्ध-
श्च्छेद्यो, द्वन्द्वं द्वेषरागाद्यपास्यम् ।
हैमो बन्धोऽप्यस्तु तुल्यः कठोरो
दासो दासः पूजितस्ताडितो वा ॥ १७४॥
(मुक्तिः)
अन्वेष्टव्या कुत्र मुक्तिः सखे! सा
लभ्या नेहामुत्र वा मान्दिरे वा ।
शास्त्रग्रन्थे वा न मा दुःखितो भू
र्यस्मादेकस्त्वं तदालम्बभूभिः ॥ १७५॥
(उपासना)
अनुष्ठानानि शास्त्राणि सम्प्रदायास्तथैव च ।
साक्षात्कारस्य सिद्ध्यर्थं साधनानीव केवलम ॥ १७६॥
(अहम्भावः)
देहमानससंयोगादहम्भावोद्भवो भवेत् ।
``जानामी''त्युपलब्धिस्तु प्रमाणं स्या''दहं''स्थितौ ॥ १७७॥
(वेदमहत्ता)
दृष्टो विरोधो यदि वेदवाक्यैः
शास्त्रं पुराणं न भवेत्प्रमाणम् ।
विश्वेऽत्र वेदाननुभासितं य-
ज्जानीहि वेदोद्भवमेव सर्वम् ॥ १७८॥
(शिक्षाप्रचारः)
शिक्षा-संस्था-माध्यमेन प्रचारः
कर्तव्यः स्याल्लोकसाधारणेन ।
गत्वा पश्चात्तैरितः प्रत्यगारं
बोद्धव्याः स्युर्बान्धवा निर्धनास्ते ॥ १७९॥
(मूर्तिपूजा)
साक्षादियं चेन्न विमुक्तिहेतु-
स्तथापि निन्द्या न हि मूर्तिपूजा ।
अद्वैतबोधागमसाध्यसिद्धि-
योग्यं मनः सा कुरुते जनानाम् ॥ १८०॥
(अध्यात्मम्)
नरस्य दिव्यां प्रकृतिं पुरस्ता- ०
दुद्धार्य्य तज्जीवनकार्यवृन्दे ।
प्रवेशनीयं कथमित्युपायः
सङ्क्षेपतो लक्ष्यमिदं मदीयम् ॥ १८१॥
अध्यात्मतत्त्वविभवस्य भुवि प्रसारो
नित्यं विधेय इति भारतधर्मकार्यम् ।
यद्ग्रीक-हूण-शक-मोघल-तुर्कयानैः
सम्पीडितं भवदपि स्थिरसंविदास्ते ॥ १८२॥
वैज्ञानिकाविष्कृतिमात्रमस्मिन्
कथं जगत्यर्हति सभ्यताख्याम् ।
मनुष्यजातौ कियतीश्वरस्य
व्यक्तिः प्रमाणं खलु सभ्यतायाः ॥ १८३॥
आत्माव्यक्तब्रह्म सर्वोऽपि बाह्यः
स्वान्तःसंस्थो यः प्रकृत्यन्तरायः ।
तं संयम्य ब्रह्मभावप्रकाशो
लक्ष्यं लोके जीवनस्योच्चमास्ते ॥ १८४॥
कर्मोपास्तिज्ञानचेतोजयाना-
मेकोपायेनाथ वा तैरनेकैः ।
व्यक्तीकृत्य स्वात्मनो दिव्यरूपं
मुक्तेर्लाभं कर्तुमर्हस्यनन्तम् ॥ १८५॥
नय त्वं मामम्ब! त्वरितमतिदीप्तं परपदं
निशानाथो यस्मिन्द्युमणिरपि खद्योतसदृशः ।
वृथा स्वप्नानेतांस्तिरय मम लीलान्तसमये
विभिद्येदं दीर्घं निगडमधुना मोचय सुतम् ॥ १८६॥
व्यष्टिः परं ब्रह्म विभाग शून्यं
मायावशादेव पृथक्त्वमेति ।
मायापि चैकीभवितुं स्वभावा-
त्तद्भेदशून्यं यतते प्रयातुम् ॥ १८७॥
``अहं'' पूर्णशक्तिप्रकाशस्वरूपं
तथा भावनेयं जननै''र्ज्ञान''मुक्तम् ।
स्वरूपं तु सापेक्षमेतेन सिद्धये-
दपेक्षायुता शुद्धसंवित्कृतः स्यात् ?॥ १८८॥
ज्ञानातीता पूर्णता सत्स्वभावा
ज्ञानाज्ञाने पूर्णतांशस्वरूपे ।
सापेक्षत्वं पूर्णतातोऽस्ति नीचै-
रज्ञानेन ज्ञानमेतादृशं स्यात् ॥ १८९॥
बन्धनात्सदसतोर्विमोचनं
मुक्तिरित्यभिहिता मनीषिभिः ।
अस्तु हैममथवाप्ययोमयं
वस्तुतस्तु निगडं तदुच्यते ॥ १९०॥
माया सादिरनादिर्वा सान्ता सा व्यष्टिरूपतः ।
समष्टिरूपतोऽनन्ता तथानादिश्च मन्यते ॥ १९१॥
वस्त्वेकमेव न द्वैतं चैतन्यं वाप्यचेतनम् ।
अज्ञानाख्या परं माया द्वैतभेदकरी भवेत् ॥ १९२॥
आदौ यदा स्याद्विषयाक्षयोगो
न द्वैतबोधस्य तदावकाशः ।
क्षणे द्वितीये सविकल्पभानं
सत्यादिसंवित्खलु निर्विकल्पा ॥ १९३॥
घनान्धकारः परितो विसर्पन्
दृष्टिं विलुम्पन्नयमन्तमेतु ।
मृत्योर्न यन्मृत्युमथाभिलाषः
``स्व''-नाशको नश्यतु दीर्घशान्त्यै ॥ १९४॥
एको मुक्तः सर्ववेद्यस्य वेत्ता,
नाम्ना रूपेणापि हीनः समानः ।
साक्षी सर्वस्वप्नजातस्य बीजं
मायाधारो विश्वरूपोऽयमात्मा ॥ १९५॥
तातो माता पुत्रजाये च मित्रं
स्वप्नं सर्वं नास्ति किञ्चिद्यथार्थम् ।
यद्येकस्त्वं कः पिता कश्च मित्रं
त्वत्तो भिन्नं नास्ति सर्वं त्वमेव ॥ १९६॥
आध्यात्मिकत्वं खलु नः समाजे
रक्तप्रवाहोऽमलजीवनस्य ।
ओजोऽन्वितो यावदसौ प्रवाहो
निष्कण्टकस्तावदयस्य पन्थाः ॥ १९७॥
न कोऽप्यभावः परिपीडयेन्नो
दरिद्रता मानसदुर्बलत्वम् ।
अध्यात्मधर्माश्रयतास्ति याव-
न्नाशोन्मुखं स्यात्किमु भारतं नः ॥ १९८॥
शुद्धोऽसि पूर्णोऽसि बलान्वितोऽसि
यदस्ति पापं न तवास्ति किञ्चित् ।
दौर्बल्यचिन्ता न सखे विधेया
प्रत्यात्मसंस्थं बलमाविरस्तु ॥ १९९॥
कदाप्युच्चैर्गच्छन्समयजलधेर्वीचिवशतो
लुठन्नीचैस्तूर्णं तदपि निजधारामनुसरन् ।
इतः श्रान्तो मातः क्षणिकसुखदुःखात्मजगत-
स्तथा दूराद् द्रष्टुं परमपरतीरं त्वपरतः ॥ २००॥
(जनताजनार्दनः)
त्वत्सम्मुखो विविधरूपधरो य ईश-
स्तं सन्त्यजन्नु कुह मार्गयसे वृथैव ।
यः स्नेहतत्परमनाः खलु जीववृन्दे
जानाति सेवितुमसावनिशं परेशम् ॥ २०१॥
(स्वामिजीवनलक्ष्यम्)
जीर्णं वस्त्रमिव त्यजामि सुखतस्तूर्ण स्वकीयं वपुः
पूर्णं कर्तुमथापि कार्यमनिशं लोके यतिष्ये धुवम् ।
यावद्ब्रह्ममयं समग्रमिति न ज्ञानं जगत्यां जनैः
तावत्प्रेरयितुं प्रयत्नपरता मन्ये मदीयं तपः ॥ २०२॥
(समर्पणम्)
स्वामिशब्दैर्विरच्येदं नव्यं श्लोकशतद्वयम् ।
त्वदीयं वस्तु भगवन्! तुभ्यमेव समर्पये ॥ २०३॥
इति साहित्याचार्य-एम्०ए०-भण्डारकरोपाह्व त्र्यम्बकशर्मणा
विरचिता श्रीस्वामिविवेकानन्दोपदेशद्विशती समाप्ता ।
Encoded and proofread by Sunder Hattangadi