श्री विश्वधर्माभ्युदयम्
(द्रुतविलम्बितवृत्तम्)
सकलविश्वतमो विनिवारयन्
निखिलतापभयं प्रावलोपयन् ।
सुविमलोऽखिलविश्वमिदं धरन्
जयति विश्वसुधर्मसुधाकरः ॥ १॥
विरतियुक्तमुमुक्षुचकोरकाः
विमलभूमसुखं हि बुभुक्षवः ।
यमनिशं विमलाः समुपासते
जयति विश्वसुधर्मसुधाकरः ॥ २॥
अमलभूमपरात्मसुखाब्धिजः
सकलहृत्कुमुदं सुविकासयन् ।
विषयशून्यसुखं वितरन्मुदा
जयति विश्वसुधर्मसुधाकरः ॥ ३॥
जगति तत्त्वमसीति सुबोधयन्
अचलभूमसुखं विदधद्भुवि ।
सकलजीवविमोक्षणकारणं
जयति विश्वसुधर्मसुधाकरः ॥ ४॥
सकलधर्मकरैश्च विराजितं
अखिलसौख्यनिधिं परमावधिम् ।
भजत रे निजसौख्यविलोलुपाः
जयति विश्वसुधर्मसुधाकरः ॥ ५॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीविश्वधर्माभ्युदयं सम्पूर्णम् ।
कार्तिक शुद्ध पूर्णिमा, रचनास्थानं मङ्गळूरु, मन्मथसंवत्सर
Proofread by Manish Gavkar