श्रीविद्याशङ्करपञ्चरत्नस्तवः
विद्याशङ्कर मां त्वं विद्याशं कुरु सदैव करुणाब्धे ।
विद्या शं कुरुते खलु विद्या शङ्कां छिनत्ति चित्तस्थाम् ॥ १॥
चिन्तयतो हृदयाब्जे योगीन्द्रस्यास्य योगबलात् ।
पुरतः प्रादुरभूतां किं करुणाब्धी गिरीन्द्रजाशम्भू ॥ २॥
सालङ्काररमापतेर्हृदि सदा ध्यानात्कृतात्सादरं
तादात्म्यं किमु योगिशेखर समापन्नोऽसि नूनं गुरो ।
नो चेद्दूरनिरस्तसर्वविभवस्याशाम्बरस्याप्यहो
चित्रं भूषणजालमाततमिदं कस्मात्समागाद्वद ॥ ३॥
विद्यातीर्थ कृपाम्बुधे कलिमलप्रध्वंसनैकव्रत
प्रज्ञादानसुदीक्षित प्रणमतां मां सर्वमित्रैर्युतम् ।
पाह्यम्ब्वग्निनृपादिजन्यभयतस्तद्वच्च रोगादितो
दत्त्वाऽऽयुष्यमरोगतां च दृढतां विद्यां च लोकोत्तराम् ॥ ४॥
विद्यादाननिबद्धदीक्ष करुणावारान्निधे सद्गुरो
विद्यातीर्थ ममादिशस्व सुखदं योगं द्रुतं सिद्धिदम् ।
यस्माच्छीघ्रमहं प्रपद्य सकलाः सिद्धीश्च विद्यास्तथा
स्वात्मानन्दनिमग्नचित्तसरसीजातो भवेयं सदा ॥ ५॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः श्रीविद्याशङ्करपञ्चरत्नस्तवः सम्पूर्णः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com