श्रीमद्वेङ्कटनाथगुरुस्तोत्रम्
॥ श्रीरस्तु ॥
श्रीमते हयग्रीवाय नमः ।
अस्मद्गुरुपरम्पराभ्यो नमः ।
श्रीकाञ्ची प्रतिवादिभयङ्करं जगदाचार्यसिंहासनाधीश
श्रीमदण्णङ्गराचार्यकृतिषु श्रीमद्वेङ्कटनाथगुरुस्तोत्रम् ।
श्रीमान्वेङ्कटनाथार्य इति पद्याक्षरक्रमात् ।
श्रीमद्वेङ्कटनाथार्यस्तोत्रं वच्मि सतां मुदे ॥
श्रीमद्वेङ्कटनाथदेशिकमणिश्शेषाद्रिभूषामणे-
र्घण्टांशः कुशिकात्मजान्वयसुधासिन्धोस्सुधादीधितिः ।
श्रीरामानुजसूरिवर्यकरुणासम्प्राप्तविद्योत्करो-
ऽनन्तार्याह्वयसोमसुत्सुतमणिर्मे सन्निधत्तां हृदि ॥ १॥
मानातीतमहागुणौघजलधिः मायीभकण्ठीरवः
मातङ्गाचलमौलिमण्डनमणेः मान्यो महादेशिकः ।
मग्नान् संसृतिसागरे मितमतीन् मादृग्जनान् रक्षितुं
मर्त्याकारमुपेयिवान् गुरुवरो मे सन्निधत्तां हृदि ॥ २॥
वेतण्डाचलमण्डनस्य वरदस्याङ्घ्री सदा संश्रयन्
तस्यैवाद्भुतमाभिरूप्यमनिशं चित्तेऽनुभूय स्वयम् ।
वैकुण्ठेऽपि न मेऽभिलाष इति यः प्रोचे महादेशिकः
सोऽयं पण्डितमण्डलीपरिबृढो मे सन्निधत्तां हृदि ॥ ३॥
कल्पन्ते किल यस्य देशिकमणेः श्रीसूक्तिरत्नोत्कराः
सर्वेषामपि देहिनां भवभयोद्विग्नात्मनां मुक्तये ।
सोऽयं वेदशिरोगुरुर्यतिपतेस्सिद्धान्तमत्यद्भुतं
भूयोभिः कृतिसञ्चयैर्विशदयन् मे सन्निधत्तां हृदि ॥ ४॥
टङ्काद्यैर्बहुभिः पुराणगुरुभिः प्रागेव दृष्टं ततः
पश्चात् श्रीयुतनाथयामुनयतिक्ष्माभृन्मुखैर्वर्धितम् ।
सिद्धान्तं गुरुराडसौ बहुतमैस्सद्ग्रन्थवृन्दैर्निजैः
संवृद्धं कलयन् कलिप्रमथनो मे सन्निधत्तां हृदि ॥ ५॥
नाहं बोद्धुमलं भवामि निगमान्तार्यस्य दिव्योक्तिषु
प्राज्ञैकानुभवार्हमद्भुततमं दिव्यार्थसारं स्वयम् ।
कारुण्येन सुदुर्वचेन भरितस्सोऽयं महादेशिकः
सर्वार्थान् स्वयमेव साधु गमयन् मे सन्निधत्तां हृदि ॥ ६॥
``थासस्से''-``ढकि लोप''-``ऋत्यक''-``इको यण्''-``कुत्सिते''-``डस्सिधुट्''
``झेर्झस्''-``झोऽन्त'' इतीदृशानि सततं सूत्राणि सङ्क्रन्दताम् ।
श्रेयः किञ्चन नोदियादिति धिया सूक्तीस्सुहृद्या अदात्
यो वेदान्तमहागुरुस्स कृपया मे सन्निधत्तां हृदि ॥ ७॥
यः कारुण्यनिधिर्यमाह भगवान् वेदान्तसद्देशिकं
येनेदं भुवनं सनाथमभवत् यस्मै नतिः श्रेयसी ।
यस्माद्दिव्यसुधोदयस्समभवत् यस्य प्रभावोऽद्भुतः,
यस्मिन् सर्वगुणा बभुः स गुरुराण्मे सन्निधत्तां हृदि ॥ ८॥
कन्यामासि फणीन्द्रशैलशिखरालङ्कारतीर्थोडुनि
प्रादुर्भूय भवाब्धिमग्नजनतासंरक्षणैकव्रती ।
यः प्रोवाच शताधिकान् सुमधुरान् सारार्थरत्नाकरान्
सद्ग्रन्थान् स गुरुर्गुणामृतनिधिर्मे सन्निधतां हृदि ॥ ९॥
विश्वत्राणविचक्षणस्स भगवान् घण्टां स्वकीयां शुभां
तोताद्र्याह्वयदिव्ययोषिदुदरे न्यस्यन् समा द्वादश ।
प्रादुर्भाव्य यदात्मना विभवनाम्न्यब्दे नभस्ये निजे
नक्षत्रे जगतीं ररक्ष स गुरुर्मे सन्निधत्तां हृदि ॥ १०॥
तातो मे भुवनप्रसिद्धमहिमा विद्यानिषद्यात्मकः
यस्य श्रीनिगमान्तदेशिकमणेः श्रीसूक्तिरत्नावलीः ।
आबाल्यान्मम कण्ठभूषणतया विन्यास्थत् अन्यादृशः
सोऽयं देशिक आत्मनः करुणया मे सन्निधत्तां हृदि ॥ ११॥
किञ्चिज्ज्ञानमुपेयुषामपि सतां यस्य त्रयीशेखरा-
चार्यस्याद्भुतसूक्तिवृन्दमनघं हृद्यं हि विद्योतते ।
भक्तिं भूरितमां विरक्तिमनघां विज्ञानमुच्चावचं
बिभ्राणस्स महागुरुर्गुणनिधिर्मे सन्निधत्तां हृदि ॥ १२॥
कल्लोला इव सागरे गुरुवरे यस्मिन् सदा सूक्तयः
प्रादुर्भावमनर्गलं जनिजुषां सौभाग्यभूम्ना दधुः ।
सोऽयं सर्वकलाविहारनिलयः सर्वज्ञचूडामणिः
सर्वानन्दनसद्गुणौघजलधिर्मे सन्निधत्तां हृदि ॥ १३॥
के वा सन्ति महीतलेऽत्र विपुले वेदान्तसूरेर्गिर-
स्सर्वास्साधु विमृश्य तस्य हृदयं गाढं ग्रहीतुं क्षमाः ।
सोऽयं देशिकसार्वभौम इह मामेकं कृपावैभवात्
स्वीयान्तःकरणज्ञमाशु कलयन् मे सन्निधत्तां हृदि ॥ १४॥
सत्यं सत्यमहं ब्रवीमि भुवने नान्योऽवतीर्णो गुरुः
चारित्रं परमं पवित्रमतुलास्सूक्तीश्च सन्दर्शयन् ।
एकोऽयं श्रुतिमौलिदेशिकमणिः सर्वात्मना शोभनः
सोऽयं सीमदरिद्रया करुणया मे सन्निधत्तां हृदि ॥ १५॥
रीङ्कारं कलयन्ति शीधुकणिकां पीत्वा द्विरेफा वने
सोऽहं वेदशिरोगुरोर्हि फणितीः पीयूषकल्पा मुहुः ।
पायम्पायमनर्गलं विरचये तौर्यत्रिकं चत्वरे
सोऽयं सर्वकलानिधिर्गुरुवरो मे सन्निधत्तां हृदि ॥ १६॥
वेदानां पठनं पुराणकथनं स्मृत्यादिसंशीलनं
सर्वं यस्य गुरोर्गिरां परिचयैः पुष्णाति शोभां पराम् ।
सोऽयं सर्वपथीनधीविलसितो वैराग्यवारान्निधिः
श्रीमान् वेदशिरोगुरुः प्रतिकलं मे सन्निधत्तां हृदि ॥ १७॥
दान्तिश्शान्तिरिति द्वयं हि सकलैस्सम्पादनीयो निधिः
सोऽयं यस्य बभौ स्वभावनियतो लक्ष्मीशसङ्कल्पतः ।
वाजिग्रीवकृपाकटाक्षविभवोदञ्चत्प्रभावोज्ज्वलः
सोऽयं देशिकतल्लजः स्वकृपया मे सन्निधत्तां हृदि ॥ १८॥
तातोऽयं तनयोऽयमेष सहजस्सैषा प्रसूः पत्न्यसौ
क्षेत्रं मामकमेतदित्यनवधि प्रोज्जृम्भमाणा तृषा ।
सर्वा मे समभूद्यदीयफणितिष्वेव प्रसिद्धप्रथ-
स्सोऽयं निस्तुलवैभवो गुरुवरो मे सन्निधत्तां हृदि ॥ १९॥
चार्वाकादिमदुर्मतान्धतमसध्वंसार्थमुद्यन् रविः
श्रीमद्वैष्णवमण्डलीकुवलयोल्लासाय भास्वान् विधुः ।
सोऽयं वेदशिरोगुरुस्स भगवानित्येवमत्यादरात्
सर्वैस्साधुगणैः प्रशस्यमहिमा मे सन्निधत्तां हृदि ॥ २०॥
यज्ञे धातुरुदित्वरस्स वरदः श्रीहस्तिशैलेश्वरः
स्वीये वाहनमण्डपे परमया प्रीत्या यमास्थापयन् ।
वारंवारमनुग्रहं प्रकटयन् विद्योतते तादृश-
प्रख्यातामितवैभवो गुरुवरो मे सन्निधत्तां हृदि ॥ २१॥
वर्गे वैष्णवशुद्धसन्ततिजुषां श्लाघ्यान् अथान्यैरपि
प्राज्ञैर्भूरितमैः प्रशस्य विभवान् ग्रन्थान् गरिष्ठान् बहून् ।
श्रीमद्वाजिमुखस्य दिव्यकृपया नित्यं सृजन् निर्मल-
प्रज्ञो देशिक एष दोषविधुरो मे सन्निधत्तां हृदि ॥ २२॥
योग्यानामयमग्रगण्य इति भुव्याख्यामिहेप्सुर्जनः
यस्याचार्यमणेर्विशुद्धफणितिष्वत्यादरं प्राप्नुयात् ।
सोऽयं श्रीशतदूषणीमुखमहाग्रन्थावलीख्यापित-
प्रज्ञाशेवधिरादरेण महता मे सन्निधत्तां हृदि ॥ २३॥
मेदिन्यामिह सर्वतः प्रसृमरा विख्यातिरन्यादृशी
यस्य श्रीनिगमान्तदेशिकमणेर्नित्यं समुज्जृम्भते ।
यस्याहुस्सकलेऽपि तन्त्रनिचये स्वातन्त्र्यमत्यङ्कुशं
श्रीमानेष गुणालयो गुरुवरो मे सन्निधत्तां हृदि ॥ २४॥
सन्देहान् सकलान् हतान् विदधतः पीयूषसन्देहदान्
गङ्गापूरसधर्मणश्शुभतमान् दिव्यान्निबन्धान् बहून् ।
उद्घाटय क्षितिमण्डलं निरुपमं निष्कल्मषं चादधत्
वेदान्तार्यगुरूत्तमः करुणया से सन्निधत्तां हृदि ॥ २५॥
नित्याराधनपेटिकां मम गृहे धन्यां वितन्वंश्चिरात्
सर्वासामपि सम्पदां मम कुले बीजायमानो महान् ।
ज्ञानानुष्ठितिसम्पदा सुमहितः कण्ठीरवो वादिनां
त्रय्यन्तार्यमहागुरुश्शुभमतिर्मे सन्निधत्तां हृदि ॥ २६॥
धन्यो नान्य इहास्ति केवलमहं धन्याग्रणीरित्यमुं
गर्वं निर्वहति प्रसिद्धमहिमा यो देशिको मामकम् ।
सोऽयं धन्यतमां धरां विदधतीस्सूक्तीरमेयास्सृजन्
श्रीमान् वेदशिरोगुरुर्मदजुषो मे सन्निधत्तां हृदि ॥ २७॥
ताम्यद्भिर्बहुधा जनैः परिवृते भूमण्डलेऽस्मिन्नहं
यस्यानुग्रहपात्रतामनितरप्राप्यामिह प्राप्नुवन् ।
सन्तुष्टस्सततं प्रफुल्लहृदयो दुःखोक्तिवैदेशिको
वर्तेः सोऽयममेयधीर्गुरुवरो मे सन्निधत्तां हृदि ॥ २८॥
सद्वृन्दैस्सह नित्यवासरसिकं सङ्ख्यातिगैर्भावुकैः
संश्राव्योक्तिपरम्परं च कृपया यो मां व्यधाद्देशिकः ।
सोऽयं द्राविडसंस्कृतादिसकलब्राह्मीषु कूलङ्कष-
प्रज्ञो वेदशिरोगुरुर्मधुरवाक् मे सन्निधत्तां हृदि ॥ २९॥
दारिद्र्यं क्षपयन् यशो विशदयन् विज्ञानमुज्जृम्भयन्
आचारं परिपोषयन् शुभमतिं सर्वत्र संवर्धयन् ।
भक्तिं मेदुरयन् हरौ किमधिकैः सर्वान् गुणान् जृम्भयन्
श्रीमद्वेदशिरोगुरुर्महितवाक् मे सन्निधत्तां हृदि ॥ ३०॥
हृद्यैर्नित्यमवद्यगन्धविधुरैरुच्चावचैर्मामक-
ग्रन्थैर्भूमिमिमां सदा सुरभयन् वेदान्तसूरिर्गुरुः ।
पूर्वाचार्यसदुक्तिरत्नसततास्वादैकसक्ताशयं
कुर्वन्मां कमनीयदिव्यवपुषा मे सन्निधत्तां हृदि ॥ ३१॥
दिव्याकारजितस्मरः सुकविताचातुर्यलीलागृहं
शुद्धानुष्ठितिकेलिसद्म भगवद्भक्त्याकरोऽत्यद्भुतः ।
सन्दिग्धार्थविनिर्णयेषु चतुरस्सर्वार्थसिद्ध्यादिका-
नेकग्रन्थकृदेष देशिकमणिर्मे सन्निधत्तां हृदि ॥ ३२॥
इत्थं वादिभयङ्करवंशीयाण्णङ्गरार्यसङ्कलितम् ।
श्रीमद्वेङ्कटनाथस्तोत्रं पठतां समृद्धिरखिला स्यात् ॥
इति श्रीकाञ्ची प्रतिवादिभयङ्करं श्रीमदण्णङ्गराचार्यकृतिषु
श्रीमद्वेङ्कटनाथगुरुस्तोत्रं समाप्तम् ॥
Proofread by Aruna Narayanan