श्रीवेदव्यासवर्णनम्
व्यासायाप्रतिमेतिहासरचनोल्लासाय दुर्वादिनां
त्रासायासकराय सत्सुकृत विश्वासाय दोषद्विषे ।
भासायामुनरम्यतोय सदृशायासायमासेविने
दासायाभयदाय मध्वगुरुहृद्वासाय तुभ्यं नमः ॥
(श्रीमन्महाभारत लक्षालङ्कार)
पारं भवाख्य जलधेर्भुवनैक सारं
स्वैरं कृतोरु विधवेद पथप्रचारम् ।
आरञ्जितामरजनं सुखचित्शरीरं
धीरं स्मरामि हृदि सत्यवतीकुमारम् ॥
(युक्ति मल्लिका)
यो वायोर्वदने स्वहृव्वरसरः सञ्जात शास्त्राम्बुज
प्रेमालम्बन सौरभं सुरसभामध्ये पुपूर प्रभुः ।
तं व्यासं हरितोऽलाचलतुलं श्रीशं भजामोनिशं
तं मध्वं च निजाध्वयायिषु यथायोग्यं तदंशार्पकम् ॥
(श्रीसरसभारती विलास १-३४)
स्नेहार्द्र मध्वहृदयाख्य दशानुषक्तं
मोहाख्य सन्तमसकृन्तन तीव्रशक्तिम् ।
श्रीमध्यवाटमठ पौरटभाजनस्थं
व्यासप्रदीपमिममादरतो भजध्वम् ॥
(तीर्थ प्रबन्ध प. प्र. श्लोक २८)
वेदव्यास गुणावास विद्याधीश सतां वश ।
मां निराशं गतक्लेशं कुर्वनाशं हरेनिशम् ॥
(तीर्थ प्रबन्ध प. प्र. श्लोक २९)
व्यासाय भवनाशाय श्रीशाय गुणराशये ।
हृद्याय शुद्धविद्याय माध्वाय च नमो नमः ॥
(युक्तिमल्लिका गुणसौरभ श्लोक ४)
इति श्रीवादिराजपूज्यचरणविरचितं श्रीवेदव्यासवर्णनं सम्पूर्णम् ।
Encoded and proofread by Krishnananda Achar