श्रीवेदव्यासस्तोत्रम् ३
(श्रीसुमध्वविजय - सप्तम सर्गः)
अगणेय गुणार्णवोमलः
स हि नारायण एष केवलम् ।
विधिनानुसृतं पराशरात्
सुषुवे सत्यवती किलाश्रयम् ॥ १॥
धवलेस्य मनः पयोनिधौ
सदनुक्रोश गिरीन्द्रलोलिते ।
प्रकटीभवति स्म सुन्दरी
दयिता दैत्यरिपोस्त्रयी मयी ॥ २॥
इत एव पुराण गौरगौ
समहाभारत पारिजातके ।
सति जातवति व्यजायत
प्रवरं सूत्रगणामृतं स्वयम् ॥ ३॥
निरवग्रहमुर्वनुग्रह
विदधत्पाण्डु सुतादि सज्जने ॥
अवनाववनाय संविदां
सुचिरायैष चचार चारुगी ॥ ४॥
अधुना कलिकालवृत्तये
सवितेव क्षणदानुवृत्तये ।
जनदृग्विषयत्वमत्यज
द्भगवानाश्रममावसन्निमम् ॥ ५॥
तदिदं वपुरस्य दृश्यते
दलितेन्दीवर सुन्दरम्मति ।
परमाजिन योग पीठगं
मम चेतो नयनाभिनन्दनम् ॥ ६॥
अगणेय गुणैः सुपूरितं
परिपूर्णागणितात्म सद्गुणैः ।
इदमस्त समस्त दूषणं
सचिदानन्दमयं हि केवलम् ॥ ७॥
कमला कमलासनानिलै
र्विहगाहीन्द्र शिवेन्द्रपूर्वकैः ।
पदपद्मरजोस्य धारितं
शिरसा हन्त वहाम्यहं मुहुः ॥ ८॥
प्रणमामि पदद्वयं विभो
र्ध्वजवज्राङ्कुश पद्मचिह्नवत् ।
निजमानसराग पीडना-
दरुणीभूतमिवारुणं स्वयम् ॥ ९॥
ननु केवलमेव वैष्णवं
श्रीतवन्तः परमात्मरोचिषा ।
तमसोप्युभयस्य नाशका
विजयन्ते नखरा नवं रविम् ॥ १०॥
सुकुमार तलाङ्गुलीमतोः
पदयोरस्य निगूढ गुल्फयोः ।
उपमानमहो नलभ्यते
कविवर्यैरितरेतरं विना ॥ ११॥
उचितां गुरुतां दधत् क्रमा
च्छुचि तेजस्वि सुव्रत्तमुत्तमम् ।
भजतोत्र च भाजयत्यदो
विभुजङ्घायुगलं सरूपताम् ॥ १२॥
अचलासनयोगपट्टिका
वरकक्ष्या सकृदाप्तमिष्टदम् ।
परितोऽपि हरिं स्फुरन्त्यहो
अनिशं धन्यतमेति मे मतिः ॥ १३॥
रुचिरेण वरैण चर्मणा
रुचिराजय्युति चारुरोचिषा ।
परमोरु नितम्ब सङ्गिना
परमाश्चर्यतया विराजते ॥ १४॥
तनुनिम्नसुनाभि शोभिते
वलिभे वारिजनाभ आददे ।
प्रतनावति सुन्दरे मृदा
वुदरेस्मिन् जगदण्डमण्डलम् ॥ १५॥
हृदये कृत सज्जनोदये
सुविशाले विमले मनोहरे ।
उभयं वहति तयि मयं
भगवान् ब्रह्मसुसूत्रमुत्तमम् ॥ १६॥
असमेनधिके सुसाधिते
निजताते रविराशिदीधिति ।
प्रददौ त्रिजगज्जयध्वजं
विधिरेतद्गलसङ्गिभूषणम् ॥ १७॥
अरिवारिजलक्षणोल्लस
त्सुकुमारारुण पाणिपद्मयोः ।
पृथुपीवर वृत्त हस्तयो
रुपमां नैव लभामहेनयोः ॥ १८॥
भजतां वरतर्कमुद्रया
व्यति हस्ताग्रमबोधमीशितुः ।
अधिजानुसमर्पित परं
कृतभूयो भयभङ्ग मङ्गलम् ॥ १९॥
सततं गलता स्वतः श्रुति-
त्रितयेनैव निकाममङ्कितः ।
सुविडम्बित कम्बुरीक्ष्यते
वररेखात्रयवान् गुरोर्गलः ॥ २०॥
सकलास्त कलङ्क कालिम
स्पुरदिन्दु प्रकरोरु विभ्रमम् ।
अधरी कुरुते स्वशोभया
वदनं देव शिखामणेरिदम् ॥ २१॥
अरुणाश्मदलान्तरोल्लस
न्नव मुक्तावलिमस्य लज्जयेत् ।
हसतः सितदन्त सन्ततिः
परमश्रीररुणोष्ठरोचिषः ॥ २२॥
द्विजवृन्दकृतं कुतूहला
दनु योगान्धु सहस्तमुत्तमम् ।
इयमेकपदे सरस्वती
श्रुतिभर्तुः परिपूरयत्यहो ॥ २३॥
जलजायतलोचनस्य मा
मवलोकोयमुपेत्यलालयन् ।
कुरुते परिरभ्य पूरितं
भुवनानन्द करस्मितान्वितः ॥ २४॥
उपकर्णममुष्य भासिता
तुलसी मन्त्रयतीव लालिता ।
ममनाथ पदं न मत्सरा
ज्जलजाद्यानि हरेयुरित्यलम् ॥ २५॥
विभवाबिभवोद्भवादिकं
भुवनानां भुवन प्रभोर्भुवोः ।
अनयोरपि दभ्रविभ्रमात्
सभवाम्भोज भवात्मनां भवेत् ॥ २६॥
त्रिजगत्तिलकालिकान्तरे
तिलकोयं परभागमाप्तवान् ।
हरि नीलगिरीन्द्र मस्तक
स्फुट शोणोपलपङ्क्ति सन्निभः ॥ २७॥
नवमम्बुधरं विडम्बय
द्वर विद्युद्वलयं जगद्गुरोः ।
अवलोक्य कृतार्थतामगां
सजटामण्डल मण्डनं वपुः ॥ २८॥
न रमापि पदाङ्गुलीलस
न्नखधूराजदनन्त सद्गुणान् ।
गणयेद्गणयन्त्यनारतं
परमान् कोस्य परो गुणान् वदेत् ॥ २९॥
सज्ञानायानन्दविज्ञानमूर्ती
प्राप्तौ पृथ्वीमाश्रमे तत्र तावत् ।
जाज्वल्येते विष्णुवायूस्म देवौ
वेदव्यासानन्दतीर्थाभिधानौ ॥ ३०॥
इति श्रीमन्नारायणपण्डिताचार्यविरचितं श्रीवेदव्यासस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Krishnananda Achar