पाषण्डखण्डन श्रीवेदव्यासस्तोत्रम् १
भीष्मेण काम्यकवने धर्मराजं नृपं प्रति ।
सत्यं सत्यमिति श्लोको भुजावुद्धृत्य पीवरौ ॥ १॥
उक्तः किल सभामध्ये कथेयमखिला स्फुटम् ।
शेषधर्माश्चर्यपर्व द्वितीयाध्याय मध्यगा ॥ २॥
अतस्तस्य भुजावेव छेद्यौ यद्यस्ति पौरुषम् ।
व्यासस्तु तां कथां ग्रन्थे निबबन्ध परं सुधीः ॥ ३॥
किं यमः पापिनं हन्यात्किं वा पापस्य साक्षिणः ।
हृता सीता रावणेनेत्युक्ते न हि जटायुषः ॥ ४॥
शिरश्चिच्छेद भगवान् रामो राजीवलोचनः ।
किन्तु भार्यापहर्तारं जघान युधि रावणम् ॥ ५॥
इदं निदर्शनं पश्य माविवेके मनः कृथाः ।
उद्धृत्य शेषधर्मस्थ वाक्यान्यपि च कानिचित् ॥
मन्दानामुपकाराय दर्शयिष्यामि तत्त्वतः ॥ ६॥
युधिष्ठिर उवाच-
पितामह महाप्राज्ञ सर्वशास्त्र विशारद ।
कृष्णे धर्मे च मे भक्तिः यथास्याद्धि तथा वद ॥ ७॥
भीष्म उवाच-
शृणु पाण्डव वक्ष्यामि हरिभक्तिं सुदुर्लभाम् ।
श्रोत्रूणां सर्वपापघ्नीं वदतां च युधिष्ठिर ॥ ८॥
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ९॥
वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम् ।
सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः ॥ १०॥
असारे दग्धसंसारे सारं यद्विष्णु पूजनम् ।
उद्धृत्य स्वभुजौ भीष्नः शशंस किल संसदि ॥ ११॥
एवं च व्यासदेवस्य कोपराधो विचारय ।
अतो मध्वमुनेर्वाक्ये भारतज्ञ शिरोमणे ॥ १२॥
उद्धृतं बाहुयुगलं यथा भवति वैतथा ।
भीष्माचार्य कृतस्योग्र शपथस्य समीरितम् ॥ १३॥
यत्र तद्वै व्यासवचः शृणुतेत्येव योजना ।
तत्तत्क्रत्त्यानुवक्ता च शास्त्राचार्योऽहिलस्य च ॥ १४॥
अशेष निगमोद्धर्ता हर्ता दुस्समयस्य च ।
मनस्सङ्कल्प मात्रेण कुरुपाण्डवसेनयोः ॥ १५॥
कर्ता सत्यवती पुत्रो विहर्ता मुनिमण्डले ।
राजसूयस्य चाचार्यः सर्पयागस्य च प्रभुः ॥ १६॥
कस्तस्य भुजयोश्छेत्ता किं वा तच्छेद कारणम् ।
भ्रममूला ततस्सर्वा कथासीद् व्यासवैरिणाम् ॥ १७॥
रजक द्रोहतो भिक्षोः शूलारोपण वाक्यवत् ।
भ्रामकं तस्य शास्त्रं च यत्रेत्थं समुदीरितम् ॥ १८॥
नारीसङ्गम मत्तोसौ यस्मान्मामवमन्यते ।
योनिलिङ्ग स्वरूपं हि तस्मादस्य भविष्यति ॥ १९॥
इति पाद्मपुराणोक्त भ्रगुशापस्य साहसम् ।
पश्यन्तु पञ्चशीर्षाणि भुजानां तु चतुष्टयम् ॥ २०॥
द्वौपादावुदरंवक्षः कटी चोरू च धूर्जटेः ।
विच्छिद्य तत्क्षणादेव पेतुः किल महीतले ॥ २१॥
शिश्नमात्रं तूर्वरितं तच्च योन्यां विवेशितम् ।
अत्र प्रमाणं शैवानां कण्ठे कण्ठेवलम्बिनी ॥ २२॥
लिङ्गमालैव या नित्यं करे वामे प्रपूज्यते ।
अतः पाद्मोदितकथा शैवानामपि सम्मता ॥ २३॥
हस्तव्वयवती रम्य जटामण्डल मण्डिता ।
पद्मपादा श्यामवर्णा लसत्कृष्णाजिनोज्ज्वला ॥ २४॥
मन्दस्मिता चन्द्रमुखी बिम्बोष्ठी पङ्कजेक्षणा ।
कुन्द कुड्मलदन्ताभा सान्द्र कुन्तल सङ्कुला ॥ २५॥
कन्दर्पकोटि सदृशी सौन्दर्याम्बुधि मन्दिरा ।
वन्दारूणामभयदा वन्द्यमाना सुरैर्नरैः ॥ २६॥
अद्यापि पूज्यते व्यासप्रतिमा ज्ञानदायिनी ।
चित्रकैर्लिख्यते भित्तौ मन्त्रशास्त्रेषु वर्ण्यते ॥ २७॥
अहो व्यास भुजच्छेदमाशासानस्य दुर्मतेः ।
स्वदैव सर्वगात्राणां च्छेदः खेदकरोभवत् ॥ २८॥
तद्वृद्धि मिच्चतो मूलच्छेदोभूत्तव दुर्जन ।
यद्व्यासाय द्रुह्यतस्ते शिवद्रोहोभवद् ध्रुवः ॥ २९॥
विवाद परिहाराय कथेयं ग्रथिताखिला ।
यतिना वादिराजेन व्यासकैङ्कर्यकामिना ॥ ३०॥
इति श्रीवादिराजपूज्यचरणविरचितं पाषण्डखण्डन
श्रीव्यासस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Krishnananda Achar