श्रीवेदव्यासमन्त्राः
१. श्रीवेदव्यासमन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः ।
वेदव्यासो देवता । श्रीवेदव्यासमन्त्र जपे विनियोगः ।
ध्यानश्लोकः -
विज्ञानरोचिः परिपूरितान्तर्बाह्याण्डकोशं हरितोपलाभम् ।
तर्काभयेतं विधिशर्वपूर्वगीर्वाण विज्ञानद मानतोऽस्मि ॥
मन्त्रः -
ॐ व्यां वेदव्यासाय नमः ॥
२. श्रीव्यासगायत्री मन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः ।
वेदव्यासो देवता । श्रीवेदव्यास गायत्रीमन्त्र जपे विनियोगः ।
ध्यानश्लोकः -
ध्यायेच्छशाङ्क शतकोट्यति सौख्यकान्तिं
संसिच्यमानममृतोरुघटैः सुरेशैः ।
वर्णाभिमानिभिरजेशमुखैः सहैव
पञ्चाशता प्रतिगिरन्तमशेष विद्याः ॥
गायत्रीमन्त्रः -
ॐ पूर्णज्ञानाय विद्महे । पूर्णानन्दाय धीमहि ।
तन्नो व्यासः प्रचोदयात् ॥
३. एकाक्षर व्यासमन्त्रः
ॐ व्यां ॐ ॥
ध्यानश्लोकः -
ध्यायेच्छशाङ्क शतकोट्यति सौख्यकान्तिं
संसिच्यमानममृतोरुघटैः सुरेशैः ।
वर्णाभिमानिभिरजेशमुखैः सहैव
पञ्चाशता प्रतिगिरन्तमशेष विद्याः ॥
इति श्रीवेदव्यासमन्त्राः समाप्ताः ।
Encoded and proofread by Krishnananda Achar