स्वामीवरदानन्दभारतीवन्दना
चरीकर्ति बहून् ग्रन्थान् सरोसर्तिमुनिव्रतम् ।
दरीधर्ति वशे चित्तं आदरीदर्तिवैदिकान् ।
जिव्हाग्रेभारतीदेवी नरीनर्ति सलीलया ।
लेखने सिद्धहस्तोयं वशीममप्रियः सखा ।
सद्भक्त्याराधितेशाय सच्छीलाय सुमेधसे ।
वरदानन्दभारत्यै भूयोभूयो नमो नमः ।
तत्पदार्थ स्वरूपस्य तत्पदे सम्पदे मम ।
भवेतां इति विज्ञप्तिं तत्पदाप्त्यै करोम्यहम् ।
एकं क्षणं लक्ष्मणार्थं रक्ष लक्षक्षणेषुते ।
-- श्री. लक्ष्मणशास्त्री शेण्डे
ज्येष्ठ वद्य ११ शुक्रवार १९९४
From Biography of Varadananda Bharati
tejAche chAndaNe, page 556