वन्दे वरदानन्दम्
॥ श्रीशङ्कर ॥
वन्दे वरदानन्दम् । श्रीयतिवर्यं विमलं शुद्धम् ॥ ध्रु. ॥
उत्तरकाशी क्षेत्रे । गङ्गा तीरे परम-पवित्रे ।
निवसन्तं तं वन्द्यम् । ध्यायन्तं हृदि हरि-गोविन्दम् ।
वन्दे वरदानन्दम् ॥ १॥
श्रीगणुदास-प्रसादात् । निर्मुक्तं खलु ममता-पाशात् ।
त्यक्ताखिल-निर्वेदम् । निरवद्यं तं निर्यत-भेदम् ।
वन्दे वरदानन्दम् ॥ २॥
नारायण बदरीशम् । पश्यन्तं हृत-निखिल-क्लेशम् ।
भगवन्तं सुख-कन्दम् । मनसि जपन्तं श्याम-मुकुन्दम् ।
वन्दे वरदानन्दम् ॥ ३॥
काषायाम्बर-वेषम् । कण्ठे पावन-धृत-रुद्राक्षम् ।
सश्रद्धं तं विबुधम् । पटु-वक्तारं, भवगद्-वैद्यम् ।
वन्दे वरदानन्दम् ॥ ४॥
युक्त्या वादविवादम् । कृण्वन्नास्तिक-मत-विच्छेदम् ।
उपनिषदाद्यनुवादम् । कुर्वन्तं, संस्तुत-सद्वृन्दम् ।
वन्दे वरदानन्दम् ॥ ५॥
भस्मेनाङ्कित-भालम् । गौरशरीरं, भव्य-विशालम् ।
शान्तं दान्तं सिद्धम् । सरस्वती-कवि-वन्दित-पादम् ।
वन्दे वरदानन्दम् ॥ ६॥
सरस्वतीकवि (मो. बा. रवन्दे)
काव्यतीर्थ, नान्देड
संस्कृत काव्यातीर्थ, डी. एड., निवृत्त
संस्कृताध्यापक. सन्तकवी दासगणूमहाराजांनी दिलेली
सरस्वतीकवी ही पदवी. काव्यनिर्मिती-श्रीगणुदासायन (५५५५ पद्य हा
सङ्ख्या असलेले महाकाव्य) श्रीशालिवाहन पद्य पुरवणी व गद्य
कादम्बरी, श्रीसन्तकवी दासगणू विरचित आठ कीर्तनाख्यानांचे
संस्कृत पद्यमय सयमक त्याच चालीवर असलेली अशी रचना,
गीतेमध्ये-कालीदासाच्या मेघदूताच्या खंड काव्यावरची २१ गीते
(गीतरामायणाप्रमाणे), थोडीशी मराठीत (पद्यमय) सुभाषिते, आणि
प्रसङ्गानुरूप विविध रचना इत्यादि.
(महती ज्ञानेश्वरिची- या चालीवर (संस्कृत गीतम्))