वल्लभशरणाष्टकम्
निःसाधनजनोद्धारकरणप्रकटीकृतः ।
गोकुलेशस्वरूपः श्रीवल्लभश्शरणं मम ॥ १॥
भजनानन्ददानार्थं पुष्टिमार्गप्रकाशकः ।
करुणावरणीयः श्रीवल्लभः शरणं मम ॥ २॥
स्वामिनीभावसंयुक्तभगवद्भावभावितः ।
अत्यलौकिकमूर्तिः श्रीवल्लभः शरणं मम ॥ ३॥
श्रीकृष्णवदनानन्दो वियोगानलमूर्तिमान् ।
भक्तिमार्गाब्जभानुः श्रीवल्लभः शरणं मम ॥ ४॥
रासलीलारसभरसमाक्रान्ताऽखिलाङ्गभृत् ।
भावरूपाखिलाङ्गः श्रीवल्लभः शरणं मम ॥ ५॥
श्रीभागवतभावार्थाविर्भावार्थानतारितः ।
स्वामिसन्तोषहेतुः श्रीवल्लभः शरणं मम ॥ ६॥
वल्लावीवल्लाभातःस्थलीलानुभववल्लभः ।
अन्यास्फुरणरूपः श्रीवल्लभः शरणं मम ॥ ७॥
जिताम्भोजपदाम्भोजविभूषितवसुन्धरः ।
सदा गोवर्धनस्थः श्रीवल्लभः शरणं मम ॥ ८॥
अनन्यस्तन्मना नित्यं पठेद्यः शरणाष्टकम् ।
स लभेत्साधनाभावयुक्तोऽप्येतत्पदाश्रयः ॥ ९॥
इति श्रीहरिरायजीविरचितं श्रीवल्लभशरणाष्टकं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com