श्रीवल्लभचरणविज्ञप्तिः
निजाचार्यपदाम्भोजद्वयं सर्वसुखावहम् ।
वहामि शिरसा तेन फलं मे सकलं ध्रुवम् ॥ १॥
दुनोमि दीनदीनोऽहं भयाद्यनवद्यसम्भवात् ।
ततो निवर्तयास्मांस्त्वमार्तानामार्तिनाशन ॥ २॥
न स्थातुं शक्यते नैव गन्तुं वा गोकुलेश्वर ।
मीनस्येव गतिर्जाता ह्यस्माकं करुणाप्रभो ॥ ३॥
खेदे कृतहृदुद्भेदे सुखसम्भेदवर्जिते ।
विगतस्वीयसम्भेदे भवानेव गतिः प्रभो ॥ ४॥
न सोढुं शक्यते नाथ धैर्यादिरहितैः स्वकैः ।
दुःखं भयसमुद्भूतं प्रभो त्वं सन्निवर्तय ॥ ५॥
नाथ त्वत्स्मरणोपायः सर्वपापनिवारकः ।
नेदानीं सम्भवत्येतद्भयात्काऽत्र गतिर्मम ॥ ६॥
इति श्रीहरिदासोक्ता श्रीमद्वल्लभचरणविज्ञप्तिः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com