श्री वामनशास्त्री इस्लामपूरकरं स्तोत्रम्
ॐ श्री ।
श्रीशङ्कर ।
(अनुष्टुभ्)
श्रीमद्भागवतग्रन्थे रममाणमहर्निशम् ।
इस्लामपूरकरं वन्दे वामनं परमं गुरुम् ॥ १॥
श्रीविठ्ठलपदासक्तमनन्यं रामदासिनम् ।
इस्लामपूरकरं वन्दे वामनं स्वात्मलोपिनम् ॥ २॥
रक्षितारं स्वभावेन श्रीकल्याणपरम्पराम् ।
इस्लामपुरकरं वन्दे वामनं भक्तशेखरम् ॥ ३॥
मानापमानयोस्तुल्यं तुल्यनिन्दाप्रियाप्रियम् ।
इस्लामपुरकरं वन्दे वामनं ब्रह्मवित्तमम् ॥ ४॥
कर्मिणं राजसेवायामपि नम्रं च निसृहम् ।
इस्लामपुरकरं वन्दे सद्गुरुं मे परात्परम् ॥ ५॥
शृङ्गाररसिकं शिष्यं कारयन्तं कुशीलवम् ।
सतामीश्वरनिष्टानां वन्दे तं वामनं प्रभुम् ॥ ६॥
श्रीसाइनाथे मयि वा न भेदोऽस्तीति बोधकम् ।
इस्लामपुरकरं वन्दे वामनं समदर्शिनम् ॥ ७॥
वदान्यं पावनं श्रेष्ठं शिष्ये सर्वसमर्पणम् ।
कृतं वै येन तं वन्दे वामनं वरदायिनम् ॥ ८॥
गृहाण शब्दरूपां मे सेवां वत्सल शास्त्रिराट् ।
नप्तारं ``वरदानन्दं'' देशिकेन्द्र क्षमस्व माम् ॥ ९॥
इति स्वामी वरदानन्दभारतीविरचितं
श्री वामनशास्त्री इस्लामपूरकरं स्तोत्रं सम्पूर्णम् ।
भावार्चना (प्राचार्य अ. दा. आठवले)
https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496
Encoded and proofread by Arun Parlikar