श्रीविष्णुप्रोक्तं त्रिदेवानामेकत्वप्रतिपादनम्
Oneness of the trinity Brahma-Vishnu-Mahesha
श्रीभगवानुवाच -
ब्रह्मा भवतो भिन्नो न शम्भुर्ब्रह्मणस्तथा ।
न चाहं युवयोर्भिन्नोऽभिन्नत्वं सदातनम् ॥ ५१॥
प्रधानस्याप्रधानस्य भागाभागस्वरूपिणः ।
ज्योतिर्मयस्य भागो मे युवामेकोऽहमंशकः ॥ ५२॥
कस्त्वं कोऽहञ्च को ब्रह्मा ममैव परमात्मनः ।
अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणम् ॥ ५३॥
चिन्तयस्वात्मनाऽऽत्मानं संस्तवं कुरु चात्मनि ।
एकत्रं ब्रह्मवैकुण्ठशम्भूनां हृद्गतं कुरु ॥ ५४॥
शिरोग्रीवाभेदेन यथैकस्यैव धर्मिणः ।
अङ्गानि मे तथैकस्य भागत्रयमिदं हर ॥ ५५॥
यज्ज्योतिरग्र्यं स्वपरप्रकाशं
कूटस्थमव्यक्तमनन्तरूपम् ।
नित्यञ्च दीर्घादिविशेषणाद्यै-
र्हीनं परं तच्च वयं न भिन्नाः ॥ ५६॥
मार्कण्डेय उवाच -
एतच्छ्रुत्वा वचस्तस्य महादेवो विमोहितः ।
जानन् स चाप्यभिन्नत्वं सद्विस्मृत्यान्यचिन्तनात् ॥ ५७॥
पुनः प्रपच्छ गोविन्दमनन्यत्वं त्रिभेदिनाम् ।
ब्रह्मविष्णुत्र्यम्बकानामेकस्य च विशेषकम् ॥ ५८॥
ततो नारायणः पृष्टः कथयामास शम्भवे ।
अनन्यत्वं त्रिदेवानामेकत्वञ्च व्यदर्शयत् ॥ ५९॥
श्रुत्वा ततो विष्णुमुखाब्जकोशा-
दनन्यतां विष्णुविधीशतत्त्वे ।
दृष्ट्वा स्वरूपं च जघान नैनं
विधिं मृडः पुष्पमधुप्रकाशकम् ॥ ६०॥
इति श्रीकालिकापुराणे त्रिदेवानामेकत्वप्रतिपादकः एकादशोऽध्यायः ॥
Proofread by PSA Easwaran