त्रिदेवानामानन्यत्वप्रतिपादनम्
Oneness of the trinity Brahma-Vishnu-Mahesha
ऋषय ऊचुः -
अनन्यत्वं त्रिदेवानां यज्जगाद जनार्दनः ।
शम्भवे तद्वयं श्रोतुमिच्छामो द्विजसत्तम ॥ १॥
एकत्वं दर्शयामास कथं वा गरुडध्वजः ।
तत् समाचक्ष्व विप्रेन्द्र परं कौतूहलं हि नः ॥ २॥
मार्कण्डेय उवाच -
शृणुध्वं मुनयो गुह्यं परमं प्रयतं परम् ।
त्रिदेवानामनन्यत्वं तथैवैकत्वदर्शनम् ॥ ३॥
हरेण पृष्टो गोविन्दस्तं समाभाष्य सादरम् ।
इदमाह मुनिश्रेष्ठा अभिन्नप्रतिपादकम् ॥ ४॥
श्रीभगवानुवाच -
इदं तमोमयं सर्वमासीद्भुवनवर्जितम् ।
अप्रज्ञातमलक्ष्यञ्च प्रसुप्तमिव सर्वतः ॥ ५॥
न दिवारात्रिभागोऽत्र नाकाशं न च काश्यपी ।
न ज्योतिर्न जलं वायुर्नान्यत् किञ्चन संस्थितम् ॥ ६॥
एकमासीत् परं ब्रह्म सूक्ष्मं नित्यमतीन्द्रियम् ।
अव्यक्तं ज्ञानरूपेण द्वैतहीनविशेषणम् ॥ ७॥
प्रकृतिः पुरुषश्चैव नित्यौ द्वौ सर्वसंहितौ ।
स्थितः कालोऽपि भूतेश जगत्कारणमेककम् ॥ ८॥
यदेकं परमं ब्रह्म तत्स्वरूपात् परं हर ।
रूपत्रयमिदं नित्यं तस्यैव जगतः पतेः ॥ ९॥
कालो नामापरं रूपमनाद्यं तत्तुकारणम् ।
सर्वेषामेव भूतानामवच्छेदेन सङ्गतः ॥ १०॥
ततस्तत् स्वप्रकाशेन भास्वद्रूपं प्रकाशते ।
पुरा सृष्ट्यर्थमतुलं क्षोभयन् प्रकृतिं स्वयम् ॥ ११॥
सङ्क्षुब्धायान्नु प्रकृतौ महत्तत्त्वमजायत ।
महत्तत्त्वात्ततः पश्चादहङ्कारस्त्रिधाभवत् ॥ १२॥
अहङ्कारे तु सञ्जाते शब्दतन्मात्रतस्ततः ।
आकाशमसृजद्विष्णुरनन्तं मूर्तिवर्जितम् ॥ १३॥
ततस्तु रसतन्मात्रादपः सृष्ट्वा महेश्वरः ।
निराधारः स्वयं दध्रे तास्तदा निजमायया ॥ १४॥
ततस्त्रिगुणसाम्येन संस्थितां प्रकृतिं प्रभुः ।
पुनः सङ्क्षोभयामास सृष्ट्यर्थं परमेश्वरः ॥ १५॥
ततः सा प्रकृतिस्तासु बीजं त्रिगुणधाभवत् ।
अप्सु संसर्जयामास जगद्बीजं निराकुलम् ॥ १६॥
तद्विवृद्धं क्रमेणैव हैममण्डमभून्महत् ।
जग्राहापः समस्तास्ता गर्भ एव तदण्डकम् ॥ १७॥
अप्सु स्थितासु हैमाण्डगर्भे विष्णुस्तदण्डकम् ।
त्वयैव मायया दध्रे ब्रह्माण्डमतुलं पुनः ॥ १८॥
वारिणा वह्निभिश्चैव वायुभिर्नभसा तथा ।
बहिस्तदण्डकं छन्नं सर्वपार्श्वे समन्ततः ॥ १९॥
सप्तसागरमानेन तथा नद्यादि मानतः ।
ब्रह्माण्डाभ्यन्तरे तोयं तदन्यत्तु बहिर्गतम् ॥ २०॥
तदन्तः स्वयमेवासौ विष्णुर्ब्रह्मस्वरूपधृक् ।
दैवं वर्षमुषित्वैव प्रबिभेद तदण्डकम् ॥ २१॥
तस्मात् समभवन्मेरुरुत्पन्नोऽस्मिन् महेश्वर ।
जरायुः पर्वता जाताः समुद्राः सप्त तज्जलात् ॥ २२॥
तन्मध्ये गन्धतन्मात्रात् पृथिवी समजायत ।
ईश्वरेण प्रकृत्या च योजिता त्रिगुणात्मिका ॥ २३॥
प्रागेव पर्वतादिभ्यः समुत्पन्ना वसुन्धरा ।
ब्रह्माण्डखण्डसंयोगाद्दृढा भूता तु सा भृशम् ॥ २४॥
तस्यामेव स्थितो ब्रह्मा सर्वलोकगुरुः स्वयम् ।
यदा ब्रह्माण्डमध्यस्थो ब्रह्मा व्यक्तो न चाभवत् ।
तदैव रूपतन्मत्रात्तेजः सम्यगजायत ॥ २५॥
वायुस्तु स्पर्शतन्मात्रात् प्रकृत्या विनियोजितात् ।
बभूव सर्वभूतानां प्राणभूतः समन्ततः ॥ २६॥
अद्भिस्तेजोभिरतुलैर्वायुभिर्नभसा तथा ।
अन्तर्बहिस्तदण्डस्य व्याप्तमन्यत्तु गर्धगम् ॥ २७॥
ततो ब्रह्मशरीरन्तु त्रिधा चक्रे महेश्वरः ।
प्रधानेच्छावशाच्छम्भौ त्रिगुणत्रिगुणीकृतम् ॥ २८॥
तदूर्ध्वभागः सञ्जातश्चतुर्वक्त्रश्चतुर्भुजः ।
पद्मकेशरगौराङ्गकायो ब्राह्मो महेश्वरः ॥ २९॥
तन्मध्यभागो नीलाङ्ग एकवक्त्रश्चतुर्भुजः ।
शङ्खचक्रगदापद्मपाणिः कायः स वैष्णवः ॥ ३०॥
अभवत्तदधोभागः पञ्चवक्त्रश्चतुर्भुजः ।
स्फटिकाभ्रसमः शुक्लः सकायश्चन्द्रशेखर ॥ ३१॥
इतस्ततो ब्राह्मकाये सृष्टिशक्तिं न्ययोजयत् ।
स्वयमेवाभवत् सष्टा ब्रह्मरूपेण लोकभृत् ॥ ३२॥
स्थितिशक्तिं निजां मायां प्रकृत्याख्यां न्ययोजयत् ।
महेशो वैष्णवे काये ज्ञानशक्तिं निजां तथा ॥ ३३॥
स्थितिकर्ताभवद्विष्णुरहमेव महेश्वरः ।
सर्वशक्तिनियोगेन सदा तद्रूपता मम ॥ ३४॥
अन्तशक्तिं तथाकाये शाम्भवे च न्ययोजयत् ।
अन्तशक्तिं तथाकाये शाम्भवे च न्ययोजयत् ॥ ३५॥
अन्तकर्ताभवच्छम्भुः स एव परमेश्वरः ।
ततस्त्रिषु शरीरेषु स्वयमेव प्रकाशते ॥ ३६॥
ज्ञानरूपं परं ज्योतिरनादिर्भगवान् प्रभुः ।
सृष्टिस्थित्यन्तकरणादेक एव महेश्वरः ॥ ३७॥
ब्रह्मा विष्णुः शिवश्चेति संज्ञामाप पृथक् पृथक् ।
अतस्त्वञ्च विधाता च तथाहमपि न पृथक् ।
एवं शरीरं रूपञ्च ज्ञानमस्माकमन्तरम् ॥ ३८॥
मार्कण्डेय उवाच -
एतच्छ्रुत्वा वचस्तस्य विष्णोरमिततेजसः ।
हर्षोतफुल्लमुखः प्रोचे पुनरेव जनार्दनम् ॥ ३९॥
ईश्वर उवाच -
एक एव महेशशेत् ज्योतीरूपो निरञ्जनः ।
का वा मायाथ कः कालः का वा प्रकृतिरुच्यते ॥ ४०॥
के पुमांसस्ततोऽभिन्ना भिन्नाश्चेत् कथमेकता ।
तन्मे वदस्व गोविन्द तत्प्रभावं यथागतम् ॥ ४१॥
श्रीभगवानुवाच -
त्वमेव पश्यसि सदा ध्यानस्थः परमेश्वरम् ।
आत्मन्यात्मस्वरूपं मज्ज्योतीरूपं सदक्षरम् ॥ ४२॥
मायाञ्च प्रकृतिं कालं पुरुषञ्च स्वयं विभो ।
ज्ञाता त्वं ध्यानयोगेन यस्माद्ध्यानपरो भव ॥ ४३॥
मायया मोहितो यस्मादधुना त्वम्मदीयया ।
ततो विस्मृत्य परमं ज्योतिर्हि वनितारतः ॥ ४४॥
अधुना कोपयुक्तस्त्वं विस्मृत्यात्मानमात्मनि ।
यां पच्छसि प्रकृत्यादिरूपाणि प्रथमाधिप ॥ ४५॥
मार्कण्डेय उवाच -
ततस्तत्र महादेवः श्रुत्वा वाक्यं सुनिश्चितम् ।
मुनीनां पश्यतां योगयुक्तो ध्यानपरोऽभवत् ॥ ४६॥
आसाद्य बद्धपर्यङ्कं निर्निमीलितलोचनः ।
आत्मानञ्चिन्तयामास तदात्मनि महेश्वरः ॥ ४७॥
परं चिन्तयतस्तस्य शरीरं विबभौ शुभम् ।
तेजोभिरुज्ज्वलं द्रष्टुं नशेकुर्मुनयस्तदा ॥ ४८॥
तत्क्षणात् ध्यानयुक्तश्च शम्भुः स विष्णुमायया ।
परित्यक्तोऽति विबभौ तपस्तेजोभिरुज्ज्वलः ॥ ४९॥
ये ये गणास्तदा तस्थुः सेवया शङ्करान्तिके ।
न तेऽपि वीक्षितुं शेकुः शङ्करं वा दिवाकरम् ॥ ५०॥
स्वयमेव तदा विष्णुः समाधिमनासो भृशम् ।
प्रविवेश शरीरान्तर्ज्योतीरूपेण धूर्जटेः ॥ ५१॥
प्रविश्य तस्य जठरे यथा सृष्टिक्रमः पुरा ।
तथैव दर्शयामास स्वयं नारायणोऽव्ययः ॥ ५२॥
न स्थूलं न च सूक्ष्मञ्च न विशेषणगोचरम् ।
नित्यानन्दं निरानन्दमेकं शुद्धमतीन्द्रियम् ॥ ५३॥
अदृश्यं सर्वद्रष्टारं निर्गुणं परमं पदम् ।
परमात्मानमानन्दं जगत्कारणकारणम् ॥ ५४॥
प्रथमं ददृशे शम्भुरात्मानं तत्स्वरूपिणम् ।
तत्र प्रविष्टमनसा बहिर्ज्ञानविवर्जितः ॥ ५५॥
तस्यैव रूपं प्रकृतिं सृष्ट्यर्थे भिन्नतां गताम् ।
ददर्श तस्यैवाभ्यासे पृथग्भूतामिवैकिकाम् ॥ ५६॥
पुरुषांश्च ददर्शासौ यथैव वसतस्ततः ।
अग्नेरिव कणात् स्थूलादजस्रं द्विजसत्तमाः ॥ ५७॥
तदेव कालरूपेण भासते च मुहुर्मुहुः ।
सृष्टिस्थित्यन्तयोगानामवच्छेदेन कारणम् ॥ ५८॥
प्रकृतिः पुरुषश्चैव कालोऽपि च मुहुर्मुहुः ।
अभिन्नान् भासमानांश्च सर्गार्थे भिन्नतां गताम् ॥ ५९॥
पृथग्भूतानभिन्नांश्च ददृशे चन्द्रशेखरः ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ६०॥
सप्रधानस्वरूपेण कालरूपेण भासते ।
तथापुरुषरूपेण संसारार्थं प्रवर्तते ॥ ६१॥
भोगार्थं प्राणिनां शश्वच्छरीरे च प्रवर्तते ।
सैव माया या प्रकृति सा मोहयति शङ्करम् ॥ ६२॥
हरिं तथा विरिञ्चिञ्च तथैवान्यजनुर्भवान् ।
मायाख्या प्रकृतिर्जाता जन्तुं सन्मोहयत्यपि ॥ ६३॥
सा स्त्रीरूपेण च सदा लक्ष्मीभूता हरेः प्रिया ।
सा सावित्री रतिः सन्ध्या सा सती सैव वीरिणी ॥ ६४॥
बुद्धिरूपा स्वयं देवी चण्डिकेति च गीयते ।
इति स्वयं ददर्शाशु ध्यानमार्गगतो हरः ॥ ६५॥
महदादि प्रभेदेन तथा सृष्टिक्रमं स्वयम् ॥ ६६॥
दर्शयित्वा हरिः कालं प्रकृतिं पुरुषांस्तथा ।
तथान्यद्दर्शयामास तच्छरीरं द्विजोत्तमाः ॥ ६७॥
इति श्रीकालिकापुराणे त्रिदेवानामानन्यत्वप्रतिपादेन द्वादशोऽध्यायः ।
Proofread by PSA Easwaran