स्वामिविवेकानन्दप्रणतिः
यदा यदा निर्मलधर्मदर्पणे
कलङ्करेखा निपतत्यहो तदा ।
प्रजायते श्री भगवान् दयार्णवो
विशोधनार्थं खलु दर्पणस्य च ॥ १॥
यदा स्मार्ताचार्याः श्रुतिमतविरोधेन हि पुन-
र्भजन्ते सङ्कीर्णं प्रभवति मतं भेदविषये ।
विवेकानन्दोऽयं कथयति कथां चौपनिषदीं
त्वभेदो जीवानां प्रतिघटपटं ब्रह्मवसतिः ॥ २॥
न जातिभेदो न च वर्णदुष्टि-
र्येनापि केनापि तथा भजस्व ।
दयार्णवस्ते शरणं तथा स्याद्
यथा नदीनां शरणं समुद्रः ॥ ३॥
या भेदबुद्धिर्विहिता तु शास्त्रे
साज्ञानलाभं विहिता न पश्चात् ।
ज्ञाने प्रजाते न हि विद्यते सा
समन्वयः सर्वगतो विभाति ॥ ४॥
उदारता यस्य हि सार्वभौमिकी
न द्वेषलेशोऽपि च यस्य मानसे ।
सर्वास्तु नार्यो जननीव पूजिता
नराश्च नारायणवत् सुमानिताः ॥ ५॥
वेदान्ततन्त्रेषु कथाविचारे
यस्यैव बुद्धिः कुशवत्सुतीक्ष्णा ।
``धर्मस्य तत्वं निहितं गुहायां''
सङ्गृह्य यो यच्छति सर्वजीवे ॥ ६॥
दरिद्रनारायण सेवनादि लक्ष्यं हि
यस्यैव च नित्यमासीत् ।
श्रीरामकृष्णस्य वरेण्य शिष्यं
नरेन्द्रनाथं प्रणता नमामः ॥ ७॥
धन्योऽसि हे धर्मसमन्वयार्थिन् !
``धर्मे गुरुर्भारतवर्षभूमिः'' ।
त्वयैव देशान्तरसंस्थितेन
संस्थापितं धर्ममहासभायाम् ॥ ८॥
वीरा वयं नो यदि शस्त्रयुद्धे
श्रेष्ठा वयं धर्ममये च सङ्ख्ये ।
सन्देहबिन्दूर्नहि विद्यतेऽस्मिन्
भवत्प्रसादादधुना पृथिव्याम् ॥ ६॥
श्रीरामकृष्णः खलु धर्मवृक्ष-
स्तस्यापि मूलं श्रुतिवाक् सुनित्या ।
स्कन्धो विवेकः समुदारचेता
आनन्दरूपा बहवश्च शाखाः ॥ १०॥
अस्य प्रशाखाः प्रसृताः पृथिव्यां
छायादिदानैः सकलानवन्ति ।
स्कन्धात् प्रजाताः फलपुष्पवत्यः
शाखास्ततः स्कन्धमिमं नमामः ॥ ११॥
इति श्रीदक्षिणारञ्जनशास्त्री विरचिता ``स्वामिविवेकानन्दप्रणतिः'' समाप्ता ।
Proofread by Aruna Narayanan