स्वामित्रिगुणातीतानन्दपञ्चकम्
आविर्भूत इहाद्य देवशरणे श्रीरामकृष्णाभिधे,
ये ये तस्य सहायकाः प्रियवरा लब्ध्वा जनिं भारते ।
अज्ञानान्धजनान् भवार्णवभयादुद्धृत्य देवं गता-
स्तेषामन्यतस्त्वमद्य भगवन् किञ्चित् किल स्तूयसे ॥ १॥
सर्वापि स्तुतिरेति शीलगुणगांस्त्रैगुण्यहीने क्व सा,
त्वं तावत् प्रथितः क्षितौ त्रिगुणातीताभिधां धारयन् ।
क्षन्तव्यस्तदपीह दोषनिबहो यद् वाच्यतां क्राम्यति
व्यक्तं वै कथितं महिम्नचरणे पुष्येण नाम्ना तथा ॥ २॥
यीशूख्रिष्ट महांस्तथापि मनुजैस्तेभ्योऽति बिद्धः क्रुशैः
श्रीरामो भगवान् प्रजाप्रियहितः सीताविहीनस्ततः ।
श्रीकृष्णोऽपि जनान् विवर्धयनतो बिद्धः पदा स्वं जहौ,
त्वं लोकप्रिय मङ्गलार्थ कृतिमान् प्राणानहासीर्निजान् ॥ ३॥
इत्थं स्वार्थविसर्जनेन सुजनाः सर्वेषु कालेष्वसून्
हास्यास्या व्यजहुर्न लिख्यत इह क्वापीतिहासे सदा ।
यद्यप्येतदपेक्षन्ते किमपि नो त्यक्ताखिलाः पारगाः
कर्तव्यं तदपीति वृत्तलिखनं ह्यस्माकमेकं परम् ॥ ४॥
आदेशात् कृतसम्मतिर्यति विवेकानन्दवर्यात्मनः
पाश्चात्यं गतवान् भवानुपनिषद्व्याख्यानहेतोर्महान् ।
श्रद्धासीच्च नृणां यथोचितविदां तद्देशनिष्ठाभृतां
त्वत्पादाब्ज समर्चनेन निरता धन्या भवामो वयम् ॥ ५॥
इति ब्रह्मचारिमेधाचैतन्यविरचितं
``स्वामित्रिगुणातीतानन्दपञ्चकम्'' सम्पूर्णम् ।
प्रणाममन्त्रः-
कर्मिणां च वरिष्ठाय जीवसेवाव्रताय च ।
त्रिगुणाय नमस्तुभ्यं गुणत्रयमुपेक्षिणे ॥
Proofread by Aruna Narayanan