स्वामिनिरञ्जनानन्दषट्कम्
निरञ्जनानन्दयतिर्निरञ्जनः, किशोरवस्थात् इतोऽपि सिद्धिमान् ।
सुरोपमः श्रीभगवत्प्रियावली, य ईशकोटिस्थित एव राजते ॥ १॥
समीहितस्वार्थविसर्जनेन हि, प्रबोधवैराग्यबलेन सिध्यता ।
प्रसूकृते सेवनकर्मपालितं, प्रभोर्दधानेन परं प्रमोदनम् ॥ २॥
गुरोर्जुगुप्साक्षुभितान्तरात्मना, सकर्णधारां तरणिं महत्तराम् ।
निमज्यमानं प्रबलेन तेजसा, त्वया प्रकर्तुं कुशलं प्रयस्तमोम् ॥ ३॥
उदारशान्तान्तरदिव्यभावकः, प्रभोस्तु कृत्ये सततं यतेन्द्रियः ।
महोद्यमेनैव कृतक्रियापरो, मुदा महावीर इवारिनाशकः ॥ ४॥
प्रियो जनानां प्रियमूर्तिसाधको, वरेण्य एषोऽहति तीर्थमानसः ।
क्रियासु दक्षः कुशलोऽनुशासने, जयत्यसौ देवगणैः सुपूजितः ॥ ५॥
नमोऽस्तु तस्मै यतिवर्यदेहिने, समाय शुद्धाय यथोक्तकारिणे ।
कृतार्थ राजारहटाख्यभूमये, हि रामकृष्णप्रिय पार्षदायते ॥ ६॥
इति ब्रह्मचारिमेधाचैतन्यविरचितं ``श्रीनिरञ्जनानन्दषट्कं सम्पूर्णम् ।
प्रणाममन्त्रः-
नास्ति मायाञ्जनं यस्य, रघुवीरपराक्रमम् ।
न्यासिनां च वरिष्ठं वै वन्दे भक्त्या निरञ्जनम् ॥
Proofread by Aruna Narayanan