श्रीगुण्डाष्टकम्
अखण्डानन्दरूपाय संविज्ज्ञानप्रदायिने ।
भवध्वान्तदिनेशाय गुण्डाख्य गुरवे नमः ॥ १॥
नामस्मरणसक्ताय आनन्दाविष्टचेतसे ।
चक्रीभजननिष्ठाय गुण्डख्य गुरवे नमः ॥ २॥
इहामुत्रार्थफलदभोगवैराग्यरूपिणे ।
शमाद्यैश्वर्ययुक्ताय गुण्डाख्य गुरवे नमः ॥ ३॥
सदासन्तुष्टमनसे शान्तिसौख्ययुताय च ।
अयाचितान्नतुष्टाय गुण्डाख्य गुरवे नमः ॥ ४॥
पाण्डुरङ्गक्षेत्रयात्राकारिणे प्रतिवत्सरे ।
सद्दर्शनप्रमोदाय गुण्डाख्य गुरवे नमः ॥ ५॥
आनन्दाब्धिनिमग्नाय स्वकीयानन्ददायिने ।
शिष्यमन्त्रोपदेष्ट्रे ते गुण्डाख्य गुरवे नमः ॥ ६॥
तटाकसन्निधौ देवग्रामान्तिकनिवासिने ।
सविरामार्यधाम्ने ते गुण्डाख्य गुरवे नमः ॥ ७॥
चूडामणिपदाम्भोजलीनहृद्भ्रमराय च ।
परतापप्रभेदाय गुण्डाख्य गुरवे नमः ॥ ८॥
गुण्डाष्टकं पठेन्नित्यं मनुजो भक्तिसंयुतः ।
सुदृढं निश्चयं कृत्वा सर्वान्कामानवाप्नुयात् ॥ ९॥
इति श्रीमदनन्तशास्त्रिविरचितं गुण्डाष्टकं सम्पूर्णम् ।