श्रीधरस्वामीप्रातःस्मरणम्
श्रीश्रीधर नित्योपासना
॥ श्री श्रीधराय नमः ॥
नमः शान्ताय दिव्याय सत्यधर्मस्वरूपिणे ।
स्वानन्दामृततृप्ताय श्रीधराय नमो नमः ॥
प्रातःस्मरामि गुरुनाथ मुखारविन्दं
मन्दस्मितं मधुरभाषि विशालभालम् ।
चिद्वल्कलाम्बरधरं परमेकसत्यं
वेदान्तबोधमभयं नयनाभिरामम् ॥ १॥
प्रातर्नमामि गुरुदेवमनन्तमाद्यं
सद्भक्तवृन्दसुखदं वरदानदक्षम् ।
यन्नामकीर्तनपराजितदुःखदोषं
संसारसिन्धुतरणामलपोतपादम् ॥ २॥
प्रातर्नमामि गुरुनाथपदारविन्दं
गन्धाक्षतातुलसिपुष्पसुशोभमानम् ।
ब्रह्मादियोगिमुनिवृन्दसुसेव्यमानं
ध्येयं समस्तजगतां भवमुक्तिहेतुम् ॥ ३॥
प्रातर्वदामि वचसा गुरुनामनाम
अज्ञानदोषसकलं शमलं निहन्ति ।
वेदान्तवेद्यसुजनैरुपगीयमानं
सच्चित्सुखं परममङ्गलदिव्यनाम ॥ ४॥
प्रातःश्रये श्रुतिनुतां गुरुमात्वतत्त्वं
मोक्षश्रियं विधृत-श्रीधरनामवाच्यम् ।
नामादिभेदरहितं निजमात्मरूपं
तत्त्वं विभातु हृदये न परं विकाङ्क्षे ॥ ५॥
यः श्लोकपञ्चकमिदं प्रयतः पठेद्धि
नित्यं प्रभातसमये गुरुमेकभक्त्या ।
ब्रह्मैवशाश्वतमहं न च वस्तुजातं
मत्वा न शोचति गुरुं शरणं प्रपन्नः ॥ ६॥
आनन्दकन्दं करुणानिधानं
संसारमायामतिमोहदूरम् ।
सदा वसन्तं हृदयारविन्दे
गुरुं वरेण्यं सततं नमामि ॥ ७॥
इति श्रीमत् प. प. सच्चिदानन्द अवधूत स्वामीविरचितं
श्रीधरस्वामीगुरुप्रातःस्मरणं सम्पूर्णम् ।
Proofread by Paresh Panditrao