श्रीधरस्तुतिः
॥ श्रीगुरवे नमः ॥
जगतः कारणं नित्यं श्रीधरं ब्रह्मरूपिणम् ।
आनन्दघनरूपं तं श्रीधरं प्रणतोऽस्म्यहम् ॥ १॥
नित्यं विचरति पद्भ्यां तीर्थानां पावनेच्छया ।
योऽसौ विश्वम्भरो देवः श्रीधरं प्रणतोऽस्म्यहम् ॥ २॥
यद्दृष्टवा सुजना नित्यं नृत्यन्ति स्फुटयन्ति च ।
भक्ताधीनं सद्गुरुं तं श्रीधरं प्रणतोऽस्म्यहम् ॥ ३॥
सर्वस्वार्थसुखं त्यक्त्वा लोकस्य हितकाम्यया ।
यः सदा तपोनिरतं श्रीधरं प्रणतोऽस्म्यहम् ॥ ४॥
दुःखमुक्तः सदानन्दः स्वात्वनिष्ठो हि केवलः ।
मुमुक्षुजनपीयूषं श्रीधरं प्रणतोऽस्म्यहम् ॥ ५॥
यः स सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः ।
यथाकाशस्थितो वायुः श्रीधरं प्रणतोऽस्म्यहम् ॥ ६॥
यं नत्वा यतिभिः प्राप्तो मोक्षो हस्तामलकवत् ।
सत्यं ज्ञानमनन्तं तं श्रीधरं प्रणतोऽस्म्यहम् ॥ ७॥
अनन्याश्चिन्तयन्तो यं सज्जनाः पर्युपासते ।
सच्चिदानन्दरूपं तं श्रीधरं प्रणतोऽस्म्यहम् ॥ ८॥
गुरो ! त्वदीय पदपङ्कजपञ्जरान्ते
अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ९॥
एतत्स्तोत्रं पठेन्नित्यं यः श्रद्धाभक्तिसंयुतः ।
गुरुनाथकृपेणासौ राजते शरदिन्दुवत् ॥ १०॥
॥ श्रीसद्गुरुदेवभगवान् विजयतेतराम् ॥
इति श्री सच्चिदानन्द अवधूतस्वामीविरचिता श्रीधरस्तुतिः समाप्ता ।
Proofread by Paresh Panditrao