श्री श्रीधरस्तुतिः
आदि नारायणं विष्णुं ब्रह्माणं च वसिष्ठकम् ।
श्रीरामं मारुतिं वन्दे रामदासं च श्रीधरम् ॥ १॥
नमः शान्ताय दिव्याय सत्यधर्मस्वरूपिणे ।
स्वानन्दामृततृप्ताय श्रीधराय नमो नमः ॥ २॥
श्रीधरं परमानन्दं लोकानुग्रहकारकम् ।
भक्तहृत्पद्मखमणिं गुरुराजं नमाम्यहम् ॥ ३॥
वन्दारुजनमन्दारं यतिवृन्दशिखामणिम् ।
ब्रह्मविष्णुशिवाभिन्नं गुरुराजं नामाम्यहम् ॥ ४॥
वर्तमानाघविध्वंसकारिणं भावि पुण्यदम् ।
पूर्वपुण्यफलाद्दृष्टं गुरुराजं नमाम्यहम् ॥ ५॥
सच्चिदानन्ददुग्धाब्धिं निजसत्यहितोक्तिभिः ।
लोपयन्तं हृदज्ञानं गुरुराजं नमाम्यहम् ॥ ६॥
भो गुरो ! मन्मनो भृङ्गः त्वत्पदाब्जे निलीयते ।
त्वदुक्ति मकरन्देन पोषय श्रीधरप्रभो ॥ ७॥
इति श्री श्रीधरस्तुतिः समाप्ता ।
श्री सद्गुरु श्रीधरार्पणमस्तु ।