श्रीधरकवचस्तोत्रम्
अथातः सम्प्रवक्षामि कवचं श्रीधरं गुरुम् ।
यस्य स्मरणमात्रेण मुच्यते पातकैर्नराः ॥ १॥
श्रीगुरुश्रीधरकवचस्तोत्रमन्त्रस्य परमात्मा ऋषिः ।
अनुष्टुप् छन्दः । श्रीगुरु श्रीधरो देवता । गुं बीजम् ।
रुं शक्तिः । श्रीधरेति कीलकम् ।
अथ करन्यासः -
श्रीं अगुष्ठाभ्यां नमः । धं तर्जनीभ्यां नमः ।
रं मध्यमाभ्यां नमः । श्रीं अनामिकाभ्यां नमः ।
धं कनिष्ठिकाभ्यां नमः । रं करतलकरपृष्ठाभ्यां नमः ।
(एवं हृदयादि न्यासः) भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
अथ ध्यानं -
ध्यायेद् ब्रह्मसनातनं गुरुवरं मोक्षश्रियाधारिणं
ब्रह्मानन्दरसार्णवं सुखधनं भक्तेष्टकल्पद्रुमम् ।
अज्ञानान्धनिवारणं गुणनिधिं भक्तप्रियं सुन्दरं
जीवानां तरणार्थमेव सततं ज्ञानप्रदं श्रीधरम् ॥
इति ध्यानम् ।
श्रीधरः पातु मूर्धानं सहस्रारेण शोभितः ।
भालं पातु गुरुर्देवः चन्द्रमण्डलमण्डितम् ॥ १॥
अक्षौपात्वक्षयः श्रीमान् अच्युतानन्तरूपकः ।
भूमध्यं पातु सर्वज्ञः मोक्षानन्दस्वरूपिणः ॥ २॥
ओङ्कारात्मश्रुतिः पातु श्रुतिसिद्धान्तगोचरः ।
नासिकां पातु विश्वात्मा विश्वातीतः परात्मनः ॥ ३॥
मुखं मुक्तिकरः पातु भक्तकैरवचन्द्रमाः ।
चिबुक चिन्मयः पातु चिदानन्दस्वयंप्रभः ॥ ४॥
जिव्हां वेदनिधिः पातु वेदवेदान्तगोचरः ।
दन्तान्पातु दानवारि धर्मरक्षणदक्षकः ॥ ५॥
ओष्ठं पातु परिव्राजः वैराग्यज्ञानसागरः ।
कपोलं श्रीकरः पातु कमलाम्बातनोभवः ॥ ६॥
कण्ठं दण्डधरः पातु ज्ञानदण्डसुशोभित ॥
स्कन्धौ चन्द्राननः पातु चन्द्रकोटिप्रकाशकः ॥ ७॥
भूमानन्दर्भुजौ पातु ब्रह्मानन्दप्रदायकः ।
करो कारुणिकः पातु कमण्डलुधरः प्रभुः ॥ ८॥
वक्षस्थलं हरिः पातु सर्वपापप्रणाशनः ।
हृदयं श्रीगुरुः पातु मोक्षश्रीधारणादीपः ॥ ९॥
उदरं वरदः पातु ब्रह्माण्डोदरव्यापकः ।
नाभिं पातु नराकारो नामरूपविवर्जितः ॥ १०॥
गुह्यं पातु गुह्यरूपः हृदयाब्जनिवासिनः ।
ऊरू गुरुवरः पातु ऊहापोषविवर्जितः ॥ ११॥
जङ्घे ज्ञाननिधिः पातु ज्ञानमात्रैकनिर्मलः ।
मूलाधारं गुरुः पातु मायाऽविद्याविनाशकः ॥ १२॥
पादौ पातु पूज्यपादः पापविध्वंसरूपकः ।
चर्म चर्माम्बरः पातु चारुकाषायभूषणः ॥ १३॥
अङ्गुलीन्देशिकः पातु मोक्षपाणि गुरोत्तमः ।
रक्तं भक्तप्रियः पातु भक्तानुग्रहशीलकः ॥ १४
मांसं मीमांसकः पातु मातृवत्सलवत्सितः ।
मज्जान्तु अजरः पातु जन्मकर्मनिवर्तकः ॥ १५॥
अस्थीनि स्थिरधीः पातु कूटस्थमचलध्रुवः ।
मेदो वेदान्तिनः पातु मेधाबुद्धिप्रदीपकः ॥ १६॥
शुक्र सुखकरः पातु सुखशान्तिप्रचोदकः ।
मनो बुद्धिमहङ्कारं रक्षयेदन्तरात्मनः ॥ १७॥
कर्मेन्द्रियाणि पात्वीशः कैवल्यसुखदेश्वरः ।
ज्ञानेन्द्रियाण्यजः पातु अव्याजकरुणाकरः ॥ १८॥
प्राणान्पातु प्रधानज्ञो पुराणपुरुषोत्तमः ।
सवाङ्गं पातु सर्वात्मा सच्चिदानन्दविग्रहः ॥ १९॥
गृहारामधनक्षेत्रपुत्रादीन् रक्ष मे द्विभुः ।
भूम्यादीन् पातु धर्मज्ञः धर्मोद्धारावतारकः ॥ २०॥
आत्मानन्दः सुखं पातु स्वानन्दामृततृप्तकः ।
दुःखापातु निजानन्दः ब्रह्मानन्दस्वरूपकः ॥ १२॥
प्राच्यां पातु परब्रह्म पात्वाग्नेयां परात्मनः ।
याम्यां धर्मात्मकः पातु नैरृत्यां पातु विश्वजित् ॥ २२॥
प्रतीच्यां पुरुषः पातु वायव्यां पातु प्राणदः ।
कौबेर्यां भगवान्पातु पात्वेशान्यां सदाशिवः ॥। ५३॥
ऊर्ध्वाधोदेशकः पातु त्रिमूर्तिस्वस्वरूपकः ।
पञ्चभूतात्मकः पातु पञ्चभूतानि भीतितः ॥ २४॥
दिवा चिदम्बरः पातु रात्रौ चन्द्रनिभाननः ।
यक्षराक्षसभूताद्यात् पातु मां श्रीधरेश्वरः ॥ २५॥
सर्वज्ञः पातु सर्वत्र सर्वमङ्गलदायकः ।
षड्भावविकृतिं पातु षडूर्मिरहितः परः ॥ २६॥
षण्णामरीणां वर्गं च पातु ज्ञानेश्वरः पुमान् ।
रोगान्निरामयः पातु नित्यशुद्धनिरञ्जनः ॥ २७॥
द्वन्द्वदुःखाद्विभुः पातु द्वन्द्वातीत्येकमद्वयः ।
व्याघ्रचोरादिभीतीश्च पातु मां सर्वरूपकः ॥ २८॥
श्रीधरानुग्रहादुक्तं मया कवचमुत्तमम् ।
संसारामयतप्तानां शाश्वतं मोक्षदं शुभम् ॥ २९॥
यः सदा धारयेत् भक्त्या स्तोत्रं कवचमुत्तमम् ।
न तस्य जायते क्वापि अशुभं गुर्वनुग्रहात् ॥ ३०॥
धर्मार्थकाममोक्षाणां इदमेवपरायणम् ।
पुत्रमित्रकलत्रादि सर्वसन्तोषसाधकम् ॥ ३१॥
त्रिसन्ध्यां पठतीयस्तु श्रद्धाभक्त्यामतन्द्रितः ।
सर्वरोगाः प्रणश्यन्ति सर्वाबाधाविनश्यति ॥ ३२॥
बहुना किमिहोक्तेन यद्यन्मनसिवर्तते ।
श्रीगुरोनुग्रहादेव तत्तत्सर्वं भवेदिह ॥ ३३॥
इति श्रीमत् परमहंस परव्राजकाचार्य श्रीसच्चिदानन्दस्वामिना
विरचितं भगवान् सद्गुरु श्री श्रीधरकवचस्तोत्रं सम्पूर्णम् ॥
श्रीधर सन्देश