श्रीधराष्टकस्तवः
॥ श्रीसद्गुरु प्रसन्न ॥
सहस्रकमले शुभ्रं शोभनं शुभदं शिवं
श्रीगुरुं संस्मरेद्दिव्यं सच्चिदानन्दविग्रहम् ॥ १॥
कर्पूरसन्निभं गौरं द्विभुजं चन्द्रिकोज्वलम् ।
अमृतस्त्राविपद्मे वै शोभितं हंससम्प्रभम् ॥ २॥
वराभयकरं शान्तं प्रसन्नं प्रसवस्वनम् ।
सुमन्दहसितं नित्यं ब्रह्मज्ञान विभान्वितम् ॥ ३॥
कृपानुकम्पयायुक्तं भक्तार्तिद्रवितं सदा ।
नितान्त मङ्गलोपाङ्गं भक्तचित्तप्रमोदनम् ॥ ४॥
सद्गुरुः श्रीधरोह्यात्मा शरण्यो मम निश्चयः ।
यस्य पादारविन्दौ वै हृदये सुप्रतिष्ठतौ ॥ ५॥
कायेन मनसा वृत्त्या मनसा सततं धिया ।
श्रीगुरोः चरणलीनो यो जीवन्मुक्तो स नित्यशः ॥ ६॥
संसारसागरे नौका सुदृढा सजवा सदा ।
सद्गुरोः चरणौ सत्यं भक्ततारणकारणौ ॥ ७॥
``श्रीधर'', ``श्रीधर'' प्रीत्या यो ब्रूयाच्छान्तितत्पराः ।
कृतकृत्यो भवेतस्य पुनर्जन्म न विद्यते ॥ ८॥
अष्टकं गुरुप्रीत्यर्थं यो नरः प्रपठेत्सदा ।
अतीव भक्तितो नित्यं, भवेत्सहिकृपान्वितम् ॥ ९॥
इति श्री पृथ्वीराज भालेरावः अथवा सुव्रतविरचितः
श्रीधराष्टकस्तवः सम्पूर्णः ।
Proofread by Paresh Panditrao