श्रीधराष्टकम्
प्रसन्नवदनं शान्तं पवित्रचरणं भजे ।
नितान्तसुभगं दिव्यं श्रीगुरुं प्रणमाम्यहम् ॥ १॥
नित्यं च निर्मलं सत्यं निर्विकल्प निरञ्जनम् ।
सच्चित्सुखधनं वन्दे सद्गुरुं विश्वपावनम् ॥ २॥
सात्विकं तत्त्वदं धीरं शुद्धसत्त्वे प्रतिष्ठितम् ।
ज्ञानिनं ज्ञानदं मुक्तं परतत्त्वे सदा रतम् ॥ ३॥
दयार्द्रं करुणापाङ्गं भवभीतिहरं विभुम् ।
प्रमत्तचित्तशास्तारं भक्तवात्सल्यनीरहम् ॥ ४॥
यतेन्द्रियं यतिश्रेष्ठं यतीन्द्र यत चेतसम् ।
शमादिषट्कसम्पन्नं मोक्षमार्गप्रदर्शकम् ॥ ५॥
मानदं सौख्यकन्दं च स्वात्मतृप्तं सदोदितम् ।
सदानन्दकरं वन्दे स्वानन्दं गुणसुन्दरम् ॥ ६॥
गुहास्थितं गुणातीतं गुरु पापविनाशनम् ।
भक्तिगम्यं सदासौम्यं वैधी भक्तिप्रियं प्रभुम् ॥ ७॥
यस्य सत्यस्वरूपंश्च ज्ञानदृश्यो हि तत्त्वतः ।
शुद्ध ब्रह्मस्वरूपञ्च श्रीधरं ते नमाम्यहम् ॥ ८॥
अष्टश्लोकात्मकं स्तोत्रं गुरुभक्तिप्रद च यः ।
प्रपठेत्प्रणतः प्रीत्या सः श्रीगुरुप्रियो भवेत् ॥ ९॥
इति श्री पृथ्वीराज भालेरावः अतवा सुव्रतविरचितं
श्रीधराष्टकं सम्पूर्णम् ।
Proofread by Paresh Panditrao