श्रीधराष्टकम्
यतो वाचो निवर्तन्ते अप्राप्य मनसेति च ।
आनन्दघनरूपं तं श्रीधरं प्रणतोऽस्म्यहम् ॥ १॥
यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः ।
मनसा वचसा नित्यं तं गुरुं प्रणतोऽस्म्यहम् ॥ २॥
यं ज्ञात्वा मुनयः सर्वे मुच्यन्ते सर्वबन्धनात् ।
सत्यं ज्ञानमनन्तं तं श्रीधरं प्रणतोऽस्म्यहम् ॥ ३॥
योऽभयं सर्वभूतेभ्यो यस्मिन्सर्वं प्रतिष्ठितम् ।
श्रीगुरोर्ब्रह्मरूपं तं श्रीधरं प्रणतोऽस्म्यहम् ॥ ४॥
आलोड्य सर्वशास्त्राणि निश्चिन्वन्ति मुनीश्वराः ।
ध्येयं सद्गुरुमित्येव तं गुरुं प्रणमाम्यहम् ॥ ५॥
निष्कलं निष्क्रिय शान्तं निरवद्य निरञ्जनम् ।
अमृतस्य परं सेतुं श्रीधरं प्रणतोऽस्म्यहम् ॥ ६॥
क्षीरे क्षीरे यथा क्षिप्तं तैलं तेले तथा गुरौ ।
स्वशिष्यमेकतां कर्ता तं गुरुं नौमिसादरम् ॥ ७॥
वेदान्ते परमं गुह्यं गोचरं तमगोचरम् ।
सच्चिदानन्दरूपं तं श्रीधरं प्रणतोऽस्म्यहम् ॥ ८॥
श्लोकाष्टकमिदं पुष्पं गुरूपूर्णिमपूजया ।
श्रीगुरोः पादयुगलौ श्रद्धा भक्त्या निवेदितम् ॥ ९॥
इति श्रीमत् प. प. सच्चिदानन्द अवधूत स्वामीविरचितं
श्रीसद्गुरु श्रीधराष्टकं सम्पूर्णम् ।
Proofread by Paresh Panditrao