श्रीशेषदासार्याष्टकम्
सीतापतिं हरिजातं प्रणम्य मतिहेतुं सुखाय पवना-
ज्ञातं बलाय पुरुहूतावातार जयतीर्थं धनार्थमनिशम् ।
पोतं श्रीसुधीन्द्रगुरुजातं तथैव मम तातं च जीवितकृते
खातस्य रीतिमनुनितां करोमि कृतिमेतां तु शेषसुगुरोः ॥ १॥
श्रीपार्थसूतपदजापाख्यमुक्तिपद सोपानमार्गद गुरुः
पापात्मानां निखिलतापापनोदनतयास्पारसौख्यमधुहत ।
भूपालवर्यकृत कोपात्कदाचिदयमापाशु चिप्पशिखरं
गोपलभक्तविजयोपाभिदस्य महिमापूरमज्जमदात् ॥ २॥
दासार्यवर्य करुणासागरोपगतमीशाङ्घ्रिपद्म महिमा
लेशामृताप्तिमति कोशः शुचीश इव भासाभिनन्द्य विबुधान् ।
देशानटन् खलकुलेशान् विचित्य रभसास्स्साध्य भक्तिभरितो
व्यासार्य पन्नवपालाशे ननाम पथगेशो यथा मुरहरन् ॥ ३॥
क्रूरारि दुष्टमत वाराशि कुम्भसुतमाराद्य तद्वरयुतः
सारं सुचिन्त्रवलिमारादुपेत्य कविवीरं भजन् कतिपयान् ।
वारानुवास गुरुराराधयन् सुजनवारं सुभोज्यधनतो
दूरात्पिशाच्यपरिवारः प्रयाति खलु घोरोस्पि यत्स्मरणतः ॥ ४॥
जम्भारिदन्तिवर दम्भापहारि कुचकुम्भाञ्चितें द्ववरजा
सम्भोगकाल परिरम्भाप्त कुङ्कुम वराम्भोरुहङ्करुचिरम् ।
अम्भोजनाभमति सम्भावनाय जगदम्बा कुमार वचनात्
कुम्भीन्द्र कृत्तिधर शम्भोर्गिरिं जनकदम्बावृतो गुरुगरात् ॥ ५॥
रामं रघोः कुलललामं निशाटतति भीमं बलाहक इव
श्यामं सतां सकल कामप्रदं तमिह सोमं सरोडुनिकरे ।
स्तौम्यम्बुजाक्षमिति वामं यथा सुजनधामास्तुवन् भगवतः
प्रेमं प्रसाद्य बलसीमं समीरणमधोमाकळत्रमभजत ॥ ६॥
गङ्गां कदाचिदघ सङ्घाप हारक विहङ्गाधिप द्वजवरो-
त्सङ्गावधिप्लुत तरङ्गां ददर्श भवभङ्गां जनैः परिवृतः ।
तुङ्गोपवासवृतरङ्गाधिपस्सुजनसङ्गी हरेर्गुणगणान्
सङ्गीततो कथयदङ्गीचकार मृदुलाङ्गी रमा सुत इति ॥ ७॥
श्रीराघवेन्द्रगुरुमाराध्य मायदितिजारिं तदीयकरुणा
धारोस्नुभूय सुखसारं किरीटि रथभारं वहन्तमदधत ।
श्रीरामवत् खलकुठारोपनीतिकृतिमाराध्विधाय सुशयो
दूरं गतं भुवि दधाराथ नाकिपरिवारस्तुतोस्यमभवेत् ॥ ८॥
श्रीशेषवर्य हरिदासाग्रणेश्चरितमाशंसितं यलमळौ
वासस्स्य विठ्ठलकृतीशस्य पूर्ण करुणाशावताह्यहरः ।
श्रीश्रीनिवास सुकविशेन पाठमनु मेशो ददाति सुसुतं
वासो धनं च सुयशः शोभनं सुखमशेषः श्रुति स्मृति गतिम् ॥ ९॥
॥ इति श्री टङ्कसालि श्रीनिवासाचार्य एवं श्रीरघुदान्त स्वामिनः
विरचितं श्री शेषदासार्याष्टकं सम्पूर्णम् ॥
॥ श्रीकृष्णार्पणमस्तु ॥