श्रीशङ्कराचार्यपदावलम्बसुवर्णमालास्तुती
ओङ्कारपङ्कजमधुव्रत वेदशीर्ष-
कञ्जातबालदिननाथ कृपासमुद्र ।
वृन्दारकेन्द्रपदतौच्छ्यमनःप्रदायिन्
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १॥
नत्वा पदाम्बुजनियुग्ममहो यदीयं
वाचस्पतित्वमधिगच्छति जन्ममूकः ।
स त्वं कृपार्णव सरोरुहपत्रनेत्र
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २॥
मत्तो मनःप्रभव एष पुरा यदीय-
नेत्राग्निनाप तरसा भसितस्वभावम् ।
स त्वं विरक्तिमचलां प्रवितीर्य मह्यं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३॥
शङ्कानिवारणपटो प्रणतव्रजस्य
यं कालकाल इति कुंभभवो जगाद ।
स त्वं वितीर्य परमायुरभीष्टपूगं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ४॥
कन्येव रूपगुणशालिनमादरेण
मर्त्यं प्रमोदभरतः स्वयमेव मुक्तिः ।
यद्वाक्सुधाप्रणयिनं वृणुते हि स त्वं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ५॥
राजाधिराजपदवीं तरसा प्रयाति
यत्पादपङ्कजयुगं सकृदेव नत्वा ।
दीनाग्रयाय्यपि विना कमपि प्रयत्नं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ६॥
यत्यग्रयायिजनतावनबद्धदीक्ष
तत्त्वं प्रबोध्य तरसा बहुलैः स्वकीयैः ।
ग्रन्थैश्च पूर्णकरुणाभरितैः कटाक्षैः
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ७॥
स्तोत्रं त्वदङ्घ्रिकमलालितमानसेन
सूक्तं पठेद्य इह भक्तियुतान्तरङ्गः ।
पात्रं भवेत्स खलु सर्वसुखस्य सत्यं
न द्वापरोऽत्र विषये मनसापि कार्यः ॥ ८॥
इति श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीमहास्वामिभिः विरचितम्
शङ्कराचार्यपदावलम्बसुवर्णमालास्तुतिः सम्पूर्णम् ॥
Encoded and proofread by Ramakrishna Upadrasta uramakrishna at gmail.com