शङ्कराचार्यसुवर्णमालास्तवः
ओमिति दिविषत्प्रवराः शीर्षे कुर्वन्ति शासनं यस्य ।
ओङ्कारपद्मभृङ्गं तमहं प्रणमामि शङ्कराचार्यम् ॥ १॥
नत्वा यत्पदयुग्मं वाचस्पतिगर्वहारिवाक्ततयः ।
प्रभवन्ति हि भुवि मूकास्तमहं प्रणमामि शङ्कराचार्यम् ॥ २॥
मन्मथमातङ्गजये कण्ठीरवतां प्रयाति जनसङ्घः ।
यत्पादाम्बुजनत्या तमहं प्रणमामि शङ्कराचार्यम् ॥ ३॥
शम्पा प्राप पुरात्तैः पुण्यैर्नूनं यदीयतनुसाम्यम् ।
शङ्कादुर्द्रुमपरशुं तमहं प्रणमामि शङ्कराचार्यम् ॥ ४॥
कम्बुस्तपञ्जलान्तर्न प्राप तुला यदीयकण्ठस्य ।
काङ्क्षितदानधुरीणं तमहं प्रणमामि शङ्कराचार्यम् ॥ ५॥
राजाधिराजपदवीं सद्यः प्राप्नोति दीनधौरेयः ।
यस्यापाङ्गालोकात्तमहं प्रणमामि शङ्कराचार्यम् ॥ ६॥
यमनियमाद्यङ्गयुतो योगः सुलभो यदीयपदभाजाम् ।
यमभीतिभञ्जनकरं तमहं प्रणमामि शङ्कराचार्यम् ॥ ७॥
स्तवराजं गुरुकृपया कृतवान् श्रीसच्चिदानन्दः ।
अवनौ भक्त्या पठतां शं तनुताच्छङ्कराचार्यः ॥ ८॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः श्रीशङ्करचार्यसुवर्णमालास्तवः सम्पूर्णः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com