श्रीशङ्कराचार्यप्रार्थना
(पृथ्वीवृत्तम्)
प्रभो भवभयार्तिहन्भवभयातुरः प्रार्थये
भवप्रशमनोत्सुकोऽपि किमुदासवच्चेष्टसे ।
ममार्तरव ईदृशः किमिति न श्रुतो विस्मयी
निरूपयितुमप्यहो स्फुरतु सामृता वाक्तव ॥ १॥
कलावहह माऽदृशोऽपि खलु मायया भ्रामितः
न वेत्ति कुशलं स्वरूपममलं परं ब्रह्म यत् ।
तनोषि कुशलं परं त्वमसि भोः परं तद्गुणन्
श्रुतं किल न निश्चितं ह्यनुभवेन मां बोधय ॥ २॥
यदेक इह बोधितोऽस्मि न च भोः पुनस्ते श्रमः
भवेयमिह बोधको भुवि पदाब्जसेवारतः ।
श्रमोऽपि तव वारितोऽहमपि मोक्षभाग्भो गुरो
विनाश्रममनिन्दितं भवति विश्वसङ्गोपनम् ॥ ३॥
तवानुचरितं प्रियं ह्यहमपीह भिक्षुर्गुरो
तवैव खलु वासना हृदि ममापि जानासि भोः ।
अहं त्वमिति निश्चयो वितनुते श्रुतिस्तत्त्वतः
सतीत्थमपि किन्न भो भवति दर्शनं ते वद ॥ ४॥
दयां कुरु च शाधि मां प्रणतवत्सलस्त्वं गुरो
तवावतरणन्दिनं समवलोक्य भोः प्रार्थये ।
अहो बत न भाषसे किमिति जाड्यमेतच्चितः
किमर्थमनुशङ्कसे सकलवित्प्रभो ब्रूहि तत् ॥ ५॥
भवेन्मदधिकोऽपि वा भवतु कोऽपि दक्षो यदि
तनोतु कुशलं नृणां तदपि मे भवेत्तुष्टये ।
विहाय खलु वासनां विततभूम्नि रंस्ये परं
समाधिमथ निश्चलां भजतु मे मनः प्रार्थये ॥ ६॥
न मे विषयवासना न च तथैव कीर्तिस्पृहा
न कर्मसचिवोऽस्म्यहं न च विमूढधीर्वा धने ।
त्वदीयविमलं शुभं सुखधनं स्वरूपं यशः
गुरो जगति विस्तृतं भवतु सैव मे वासना ॥ ७॥
श्रीमच्छङ्करदेशिको विजयते वेदान्ततत्त्वोदधिः
भूमा ब्रह्मसनातनो विभुरहो नास्ति द्वितीयं यतः ।
अज्ञानान्धविमूढचित्तजनता यन्मोचिताऽनेकशः
मायाध्वान्तविनाशनैकतरणिं वन्दे गुरुं शङ्करम् ॥ ८॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचिता श्रीशङ्कराचार्यप्रार्थना सम्पूर्णा ।
Proofread by Manish Gavkar