शचीसुताष्टकम्
नवगौरवरं नवपुष्पशरं
नवभावधरं नवलास्यपरम् ।
नवहास्यकरं नवहेमवरं
प्रणमामि शचीसुतगौरवरम् ॥ १॥
नवप्रेमयुतं नवनीतशुचं
नववेशकृतं नवप्रेमरसम् ।
नवधा विलसत् शुभप्रेममयं
प्रणमामि शचीसुतगौरवरम् ॥ २॥
हरिभक्तिपरं हरिनामधरं
करजप्यकरं हरिनामपरम् ।
नयने सततं प्रणयाश्रुधरं
प्रणमामि शचीसुतगौरवरम् ॥ ३॥
सततं जनताभवतापहरं
परमार्थपरायणलोकगतिम् ।
नवलेहकरं जगत्तापहरं
प्रणमामि शचीसुतगौरवरम् ॥ ४॥
निजभक्तिकरं प्रियचारुतरं
नटनर्तननागरराजकुलम् ।
कुलकामिनिमानसलास्यकरं
प्रणमामि शचीसुतगौरवरम् ॥ ५॥
करतालवलं कलकण्ठरवं
मृदुवाद्यसुवीणिकया मधुरम् ।
निजभक्तिगुणावृतनात्यकरं
प्रणमामि शचीसुतगौरवरम् ॥ ६॥
युगधर्मयुतं पुनर्नन्दसुतं
धरणीसुचित्रं भवभावोचितम् ।
तनुध्यानचितं निजवासयुतं
प्रणमामि शचीसुतगौरवरम् ॥ ७॥
अरुणं नयनं चरणं वसनं
वदने स्खलितं स्वकनामधरम् ।
कुरुते सुरसं जगतः जीवनं
प्रणमामि शचीसुतगौरवरम् ॥ ८॥
इति सार्वभौमभट्टाछर्यविरचितं शचीसुताष्टकं सम्पूर्णम् ।