श्रीशनिबाधा विमोचन शबरीश्वराष्टकम्
शनिबाधाविनाशाय घोरसन्तापहारिणे ।
कानकालयवासाय भूतनाथाय ते नमः ॥ १॥
दारिद्र्यजातान्रोगऽतीन्बुद्धिमान्द्यादि सङ्कटान् ।
क्षिप्रं नाशाय हे देवा शनिबाधाविनाशक ॥ २॥
भूतबाधामहा दुःखमध्यवर्तिनमीशमाम् ।
पालय त्वं महाबाहो सर्वदुःखविनाशक ॥ ३॥
अवाच्यानि महादुःखान्यमेयानि निरन्तरम् ।
सम्भवन्ति दुरन्तानि तानि नाशय मे प्रभो ॥ ४॥
मायामोहान्यनन्तानि सर्वाणि करुणाकर ।
दूरीकुरु सदा भक्तहृदयानन्ददायक ॥ ५॥
अनेकजन्म सम्भूतान्तापपापान्गुहेश्वर ।
चूर्णीकुरु कृपासिन्धोसिन्धुजाकान्त सन्तते ॥ ६॥
उन्मत्तोत्भूत सन्तापकान् कृपान् महेश्वर ।
हस्तावलम्बं दत्वं मां रक्ष रक्ष शनैश्चर ॥ ७॥
देहि मे बुद्धिवैशिष्ट्यं देहि मे नित्ययौवनम् ।
देहि मे परमानन्दं देव देव जगत्पते ॥ ८॥
इति श्रीशनिबाधा विमोचन शबरीश्वराष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor