श्रीशास्तृ(अय्यप्प) सुप्रभातम्
मोहिनीसुप्रजा शास्तः पूर्वासन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १॥
उत्तिष्ठोत्तिष्ठ शबरीश उत्तिष्ठ व्याघ्र/गजवाहन ।
श्रीपूर्णपुष्कलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥
शास्तः समस्तजगतां महिषीनिहन्तः
श्रितहृद्विहारि मनोहरदिव्यमूर्ते ।
श्रीस्वामिन् श्रितजनप्रिय दानशील
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ३॥
तव सुप्रभातमरविन्दलोचन
भव सुप्रसन्नमुखचन्द्रमण्डल ।
ऋषिसिद्धदेवप्रमुखैः समर्चित
शबरिशैलनाथ शरणं दयानिधे ॥ ४॥
प्रातः प्रबुद्धऋषयस्समुपास्य सन्ध्यां
आकाशसिन्धुकमलानि मनोहराणि ।
आदाय पादयुगमर्चयितुं प्रपन्नाः
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ५॥
अब्जानन हरिहरोद्भव सुन्दराङ्ग
त्वद्विक्रमादिचरितं विबुधाः स्तुवन्ति ।
भाषापतिः पठति वासरशुद्धिमारात्
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ६॥
ईषत्प्रफुल्लसरसीरुहनारिकेल-
पूगद्रुमादि सुमनोहरपालिकानाम् ।
आवाति मन्दमनिलः सहदिव्यगन्धैः
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ७॥
उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः
पात्रावशिष्टकदलीफलपायसानि ।
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ८॥
भृङ्गावली च मकरन्दरसानुविद्ध-
झङ्कारगीतनिनदैः सह सेवनाय ।
निर्यात्युपान्तसरसीकमलोदरेभ्यः
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ९॥
पद्मेशमित्रशतपत्रगतालिवर्गाः
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या ।
भेरीनिनादमिव भिभ्रति तीव्रनादं
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १०॥
श्रीमन्नभीष्टवरदाखिललोकबन्धो
श्रीधर्मशास्त(ः) जगदेकदयैकसिन्धो ।
श्रीदेवतागृहभुजान्तरदिव्यमूर्ते
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ११॥
सेवापरा ऋषिसुरेशकृशानुधर्म-
रक्षोऽम्बुनाथपवमानधनाधिनाथाः ।
बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १२॥
सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि-
स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः ।
त्वत्पाददर्शनायात्युत्सुकाः प्रतीक्षन्
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १३॥
त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः ।
कल्पागमाकलनयाऽऽकुलतां लभन्ते
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १४॥
त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीं परमां श्रयन्तः ।
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १५॥
श्रीशबरिनायक दयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूर्ते ।
श्रीमन् नृदैवतगणादिभिरर्चिताङ्घ्रे
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १६॥
श्रीशबरिनाथ पुरुषोत्तम देवदेव
श्रीभूतनाथ शिवपुत्रक दीनबन्धो ।
मृगयाप्रिय शरणागतपारिजात
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १७॥
कन्दर्पदर्पहरसुन्दर दिव्यमूर्ते
कान्तारवास विपुलाक्ष दयाऽऽर्द्रचित्त ।
कल्याणनिर्मलगुणाकर दिव्यकीर्ते
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १८॥
एलालवङ्गघनसारसुगन्धितीर्थं
दिव्यं वियत्सरिति हेमघटेषु पूर्णम् ।
धृत्वाद्य वैदिकशिखामणयः प्रहृष्टाः
तिष्ठन्ति शत्रुदमन तव सुप्रभातम् ॥ १९॥
भास्वानुदेति विकचानि सरोरुहाणि
सम्पूरयन्ति निनदैः ककुभो विहङ्गाः ।
त्वत्प्रियजनाः सततमर्थितमङ्गलास्ते
धामाश्रयन्ति तव शुभङ्कर सुप्रभातम् ॥ २०॥
शबरीनिवास निरवद्यगुणैकसिन्धो
संसारसागरसमुत्तरणैकसेतो ।
वेदान्तवेद्यनिजवैभवभक्तभोग्य
श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ २१॥
इत्थं शबरिशैलपतेरिह सुप्रभातं
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभातसमये स्मृतिरङ्गभाजां
प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २२॥
इति श्रीशास्तृ(अय्यप्प)सुप्रभातं सम्पूर्णम् ॥
Proofread by PSA Easwaran