श्रीशास्तृस्तोत्रम्
(श्रीकालटीक्षेत्रे)
शास्ता दुष्टजनानां पाता पादाब्जनम्रलोकनाम् ।
कर्ता समस्तजगतामास्तां मद्धृदयपङ्कजे नित्यम् ॥ १॥
गणपो न हरेस्तुष्टिं प्रद्युम्नो नैव दास्यति हरस्य ।
त्वं तूभयोश्च तुष्टिं ददासि तत्ते गरीयस्त्वम् ॥ २॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीशास्तृस्तोत्रं सम्पूर्णम् ।
श्रीसूर्यनारायणदेवस्थाने)
(श्रीशृङ्गगिरिनिकटस्थ
Proofread by PSA Easwaran