श्रीशारदामातृप्रणामः
दृष्टान्तं नो जगति महति स्थापनार्थं प्रयत्नो
यस्याश्चायं विमलमतिभिर्मानितः सुष्ठु चास्मिन् ।
सोऽहम्भावग्रहण मनसश्चात्मद्रष्टुर्द्विजस्य
धन्यां भार्यां पतिमनुगतां रामकृष्णैकचित्ताम् ॥ १॥
सततमखिललोकैर्वेष्ठिताया न यस्याः
कथमपि बत यातो मानसाद् ब्रह्मभावः ।
जगदुपकृतिसारः स्वीकृतः स्वावतारः
शमदमभजनार्थं शारदां तां नमामि ॥ २॥
न जातिभेदो न च वर्णभेदो
न धर्मभेदो न च वान्यभेदः ।
स एव धर्मः परमो मतोऽस्या
यतः खलु तुष्यति चाखिलेशः ॥ ३॥
कैलाशनिलयां देवीं शारदां भवगेहिनीम् ।
अवतीर्णां भवेऽस्मिन् वै शारदां तां नमाम्यहम् ॥ ४॥
रामकृष्णेन चाख्याता ज्ञानदा त्वं हि केवलम् ।
अतस्त्वां खलु याचेऽहं दिश तज्ज्ञानमुत्तमम् ॥ ५॥
संसारोत्तरणं ज्ञानं दातुं शक्या त्वमेव हि ।
कृपया दिश तज्ज्ञानं येन धन्यो भवाम्यहो ॥ ६॥
आश्रित्यामरदेहं त्वमुद्धर्तुमाश्रितान् जनान् ।
गृहीतासि व्रतं मातः सन्देहो नात्र कस्यचित् ॥ ७॥
पत्युर्व्रते स्थिता नित्यं सदा पत्यनुगामिनी ।
आज्ञया पतिदेवस्य स्वभक्तोद्धारणे रता ॥ ८॥
इति श्रीविश्वेश्वरभट्टाचार्यविरचितः
``श्रीश्रीशारदामातृप्रणामः'' समाप्तः ।
Proofread by Aruna Narayanan