श्रीशारदामातृ षोडशिका
श्रीराम-श्यामागत-देहाऽतुल्य-कन्यकाभाव-दर्शिनी
सुस्निग्ध-ज्येष्ठ स्वसृ-रूपा प्रायशोऽखिल-ग्राम-वासिनाम् ।
जायाऽपि ब्रह्म-व्रत-निष्ठा भर्तृ-दिव्य-भाव-प्रकाशिनी
देवी त्वं माता सकलानां सङ्घपालिकां पाप-हारिणी ॥ १॥
साक्षान्माया मायाविष्टाऽसामान्याऽपि त्वं सामान्या ।
विद्या-न्यूर्ना ग्राम्याऽपि त्वं ब्रह्म-ज्ञानादर्श-प्राणा ॥ २॥
शारदे ! सारदात्री त्वं सदा विश्वार्ति-हारिणी ।
गूढ-रूपे ! महा-देवि ! कस्त्वां स्तोतुमिहाऽर्हति ॥ ३॥
दीन-वेशा पति-प्राणा सर्वं-सहा धरेव तु ।
राजराजेश्वरी हि त्वं कस्त्वां स्तोतुमिहाऽर्हति ॥ ४॥
अजनयन्त्यापि स्वीयान् मानवीव तु गर्भजान् ।
जननी सर्वजीवानां कस्त्वां स्तोतुमिहाऽर्हति ॥ ५॥
गलित-स्नेह-धाराऽपि बगलारूपधारिणी ।
धृत-जिह्वा प्रमत्तस्य कस्त्वां स्तोतुमिहाऽर्हति ॥ ६॥
अकिञ्चनाऽपि मातस्त्वं त्यक्तवित्तैषणा स्वतः ।
दर्शित-त्याग-निष्ठाहो कस्त्वां स्तोतुमिहाऽर्हति ॥ ७॥
नारी-रूप-धराऽपित्वं पुं-स्त्री-धर्मोपदेशिनी ।
कामिनीत्याग-वक्त्री च कस्त्वां स्तोतुमिहाऽर्हति ॥ ८॥
भार्याऽपि स्वामिनं देवं ``काली'ति संलपन्त्यभूः ।
प्रयाण-समये मातः! कस्त्वां स्तोतुमिहार्हति ॥ ९॥
योगाश्रमे स्वयं मातरभ्यर्च्याऽहो निजाकृतिम् ।
नाथालेख्येन साकन्त्वभेद-काष्ठां परां गताः ॥ १०॥
शक्तिमता यथा शक्तिस्तादात्म्यरूपतः स्थिता ।
तथा त्वं रामकृष्णेण कस्त्वां स्तोतुमिहाऽर्हति ॥ ११॥
भार्या देवीश्वरी माता श्रीरामकृष्ण देवतः ।
अमेय भावरूपा त्वं कस्त्वां स्तोतुमिहाऽर्हति ॥ १२॥
हे मातः शारदे! श्री रामकृष्ण-पूजिते!
मां रक्षाऽनाथकं दीनार्त-सेवकं भवे ।
संसार-व्याकुलं भीतं चिरं भवाऽर्णवे ।
मग्नं मोहप्रदे याचे कृपालवं नु ते ॥ १३॥
त्वं दुर्गा कालिका चण्डी महा-सरस्वती
देवी विद्या परासृष्टि-स्थिति प्रणाश-कृत् ।
आद्या शक्तिः रथो धात्री महा-रमाऽसि मे
तत्त्वं को वेत्ति ते श्रीरामकृष्ण एव वै ॥ १४॥
ॐ-ऐं-ह्रीं-बीज-प्रतिपाद्ये ! सर्वदेवदेवी-स्वरूपिणी !
मातस्त्वं को नु प्रणमेन्न क्षौणिमण्डले मङ्गलक्रमः ।
वक्तुं नालं कोऽपि सुमेधास्ते विचित्रलीला-सुवैभवं
कालग्रस्तं माऽतिविमूढं रक्षदेवि ! सर्वार्थ साधिके ॥ १५॥
नूमः सर्वाधारां प्रणतजनसंसार-तरणीं
जगन्मातृत्वे वै फलहरण काल्यर्चन तिथौ ।
स्तुतां देवीं पत्या निखिल मनुजानां पर हिते
रतां दिव्याचारां सकल वरदां शारदा-मणिम् ॥ १६॥
इति श्रीजगन्नाथदेवशर्मणा विरचिता ``श्रीश्रीशारदामातृषोडशिका'' समाप्ता ।
Proofread by Aruna Narayanan